________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१८], -------------- उद्देशक: [-], ------------- दारं [३], -------------- मूलं [२३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [२३३]
दीप अनुक्रम [४७४]
| पोग्गलपरियट्टा आवलियाए असंखेजहभागो' इति द्वीन्द्रियसूत्रे 'संखे कालं ति सङ्ख्येयानि वर्षसहस्राणीत्यर्थः, 'विगलिंदियाण य वाससहस्सा संखेजा' [विकलेन्द्रियाणां वर्षसहस्राणि संख्येयानि ] इति वचनात्, एवं त्रीन्द्रियचतुरिन्द्रिययोरपि सूत्रे वक्तव्ये, तत्रापि जघन्यतोऽन्तर्मुहूर्त उत्कर्षतः सङ्ख्येयकालमिति वक्तव्यमिति भावः, सञ्जयेयश्च कालः सङ्ग्यानि वर्षसहस्राणि प्रत्येतव्यानि । पञ्चेन्द्रियसूत्रे उत्कर्षतः सातिरेक सागरोपमसहस्रं, तच नैरयिकतिर्यपञ्चेन्द्रियमनुष्यदेवभवनमणेन द्रष्टव्यं, अधिकं तु न भवति, एतावत एव कालस्य केवलवेदसोपलब्धत्वात् । अनिन्द्रियो द्रव्यभावेन्द्रियविकलः स च सिद्ध एव सिद्धश्च साद्यपर्यवसितः तत उक्तं 'साइए अपज्जवसिए' इति । 'सइंदियअपजत्तए णं' इत्यादि, इहापर्याप्सा लब्ध्यपेक्षया करणापेक्षया च द्रष्टव्याः, उभयथापि तत्पर्यायस्य जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्त्तप्रमाणत्वात् , एवं तावद्वाच्यं यावत्पञ्चेन्द्रियापर्याप्तकः-पञ्चेन्द्रियापर्याप्तकसूत्रं, तच सुगमत्वात् खयं परिभावनीयं, अनिन्द्रियोऽत्र न वक्तव्यः, तस्य पर्याप्तापर्यासविशेषणरहितत्वात् । 'सइंदियपज्जत्तए णं भंते !' इत्यादि, इह पर्याप्तो लब्ध्यपेक्षया वेदितव्यः, स हि विग्रहगतावपि संभवति, करणैरपर्याप्तस्यापि, तत उत्कर्षतः सातिरेकं सागरोपमशतपृथक्त्वमिति यन्निर्वचनं तदुपपद्यते, अन्यथा करणपर्याप्तत्वस्योत्कर्षतोऽप्यन्तर्मुहूत्तोनत्रयस्त्रिंशत्सागरोपमप्रमाणतया लभ्यमानत्वात् यथोक्तं निर्वचनं नोपपद्यते, एवमुत्तरसूत्रेऽपि पर्याप्तत्वं लब्ध्यपेक्षया द्रष्टव्यं । एकेन्द्रियपर्याससूत्रे सङ्ख्ययानि वर्षसहस्राणीति, एकेन्द्रियस्य हि पृथिवीकायस्योत्कर्षतो
~ 759~