________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], ------------- उद्देशक: [४], -------------- दारं [-], ------------- मूलं [२२५] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२२५]]
गाथा
यथायोगं क्रमेण शेषसमस्तलेश्यापरिणमनमाह से नूर्ण भंते ! कण्हलेसा नीललेस्सं काउलेस्स'मित्यादि, वाशब्दोऽत्र सर्वत्राप्यनुक्तो द्रष्टव्यः, नीललेश्यां वा कापोतलेश्यां वा यावत् शुक्ललेश्यां वा, एकस्सा लेश्यायाः परस्प-1 रविरुद्धतया युगपदनेकलेश्यापरिणामासंभवात् , शेषाऽक्षरगमनिका प्राग्वत् , अत्रैवार्थे दृष्टान्तमभिधित्सुरिदमाहसे केगडेणं भंते ! इत्यादि सुगम, नवरं यथा वैडूर्यमणिरेक एव तत्तदुपाधिद्रव्यसम्पर्कतस्तद्रूपतया परिणमते तथैव तान्यपि कृष्णलेश्यायोग्यानि द्रव्याणि तत्तन्नीलादिलेश्यायोग्यद्रव्यसम्पर्कतस्तत्तद्रूपतया परिणमन्ते इति, एतावताउंशेन दृष्टान्तो नतु पुनर्यथा वैडूर्यमणिः खखरूपमजहानस्तत्तदुपाधिद्रव्यसम्बन्धतस्तत्तदाकारमात्रभाजितया तत्तद्रूपतया परिणमते तथैतान्यपि कृष्णलेश्यायोग्यानि खखरूपमजहानान्येव द्रव्याणि तत्तन्नीलादिलेश्यायोग्यद्रव्यसम्पर्कतस्तत्तदाकारमात्रधारितया तत्तद्रूपतया परिणमन्ते इत्यनेनांशेन, तिरश्चां मनुष्याणां च लेश्याद्रव्याणां | सामस्त्वेन तद्रूपतया परिणामाभ्युपगमात्, अन्यथा नैरयिकदेवसत्कलेश्याद्रव्याणामिव तिर्यग्मनुष्याणामपि लेश्याद्रव्याणां सर्वथा स्वरूपापरित्यागेन चिरकालमवस्थानसंभवात् , यत उत्कर्षतोऽप्येषामन्तर्मुहूर्तलक्षणं स्थितिपरिमाणमन्यत्रोक्तं तद्विरुध्येत, पल्योपमत्रयमपि यावत् उत्कर्षतः स्थितिसंभवात् , तदेवं तदन्यलेश्यापश्चकपरिणाममधि-15 कृत्य कृष्णलेश्याविपर्य सूत्रमुक्त, एवं नीलादिलेश्याविषयाण्यपि प्रत्येकं तदन्यलेश्यापञ्चकपरिणाममधिकृत्य पञ्च सूत्राणि वक्तव्यानि, तदेवं तिर्यमनुष्याणां भवसङ्क्रान्ती शेषकालं च लेण्याद्रव्यपरिणाम उक्तः, देवनैरयिकसत्कानि
दीप अनुक्रम [४६२
-४६३]
~723~