________________
आगम
ༀ༞ ཡཱ ཟླ - ལྕལླཱཡྻ ཏྠཱ
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
दार [-]
मूलं [२२५] + गाथा
पदं [१७].
उद्देशकः [४],
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
गोयमा ! तं चैव से नूणं भंते ! सुकलेसा किण्ह० नील० काउ० तेउ० पम्ह० लेसं पप्प जाव भुजो २ परिणम १, हंता गोयमा ! तं चैव ( सू २२५ )
'कर णं भंते! लेसाओ पन्नत्ताओ' इत्यादि, इदं सूत्रं प्रागप्युक्तं परं परिणामाद्यर्थप्रतिपादनार्थ भूय उपन्यस्तं 'से नृणं भंते' इत्यादि, अथ भदन्त कृष्णलेश्या - कृष्णलेश्यायोग्यानि द्रव्याणि नीललेश्यां- नीललेश्यायोग्यानि द्रव्याणि प्राप्य - अन्योऽन्यावयवसंस्पर्शमासाद्य तद्रूपतया - नीललेश्यारूपतया, रूपशब्दोऽत्र स्वभाववाची, नीललेश्याखभावतयेत्यर्थः भूयो भूयः परिणमतीति योगः, तत्खभावश्च तद्वर्गणा (द्वर्णा) दिरूपतया भवति तत आह- तद्वर्णतया तद्सतया तद्गन्धतया तत्स्पर्शतया, सर्वत्रापि तच्छब्देन नीललेश्या योग्यानि द्रव्याणि परामृशन्ति भूयो भूयः -- अनेकवारं तिर्यग्मनुष्याणां तत्तद्भवसङ्क्रान्तौ शेषकालं वा परिणमते, इदं हि तिर्यगमनुष्यानधिकृत्य वेदितव्यं, एवं गौतमेन प्रश्ने कृते भगवानाह 'हंता गो० !' इत्यादि, हन्तेत्यनुमती अनुमतमेतत् गौतम ! कृष्णलेश्या नीललेश्यां प्राप्येत्यादि प्राग्वत्, इयमत्र भावना-यदा कृष्णलेश्यापरिणतो जन्तुस्तिर्यग्मनुष्यो वा भवान्तरसङ्क्रान्तिं चिकीर्षुनललेश्यायोग्यानि द्रव्याणि गृह्णाति तदा नीललेश्यायोग्यद्रव्य सम्पर्कतस्तानि कृष्णलेश्यायोग्यानि द्रव्याणि तथा - रूपजीव परिणामलक्षणं सहकारिकारणमासाद्य नीललेश्याद्रव्यरूपतया परिणमन्ते, पुद्गलानां तथातथापरिणमनस्वभावत्वात् ततः स केवलनीललेश्यायोग्यद्रव्यसाचिन्यान्नीललेश्या परिणतः सन् कालं कृत्वा भवान्तरे समुत्प
Education Intention
For Parts Only
~ 721 ~