________________
आगम
(१५)
प्रत
सूत्रांक
[२०९]
दीप
अनुक्रम
[४४६]
प्रज्ञापना
याः मल
य०वृत्ती.
॥ ३३८ ॥
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः)
दारं [-1,
पदं [१७],
मुनि दीपरत्नसागरेण संकलित...
उद्देशक: [१],
मूलं [२०९ ]
... आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
प्रागुत्तर भवान्तर्मुहूर्त्तद्वय निजायुः कालप्रमाणावस्थाना भवति, तथा "जा पन्हाइ ठिई खलु उक्कोसा चैव समयमम्भहिया । सुकाऍ जहन्त्रेण तेत्तीसकोस [ मुहुत्त ] मन्महिया ॥ १ ॥” इति [ या पद्मायाः स्थितिः खलु उत्कृष्टा समयाभ्यधिकैव । शुक्लाया जघन्येन त्रयस्त्रिंशत्सागरोपमाणि मुहूर्त्ताभ्यधिकानि उत्कृष्टा ॥ १ ॥ ] ततोऽस्माल्लेश्यास्थितिपरिमाणात् प्रागुक्ताय तृतीयलेश्योद्देशवक्ष्यमाणसूत्रादवसीयते देवानां नैरयिकाणां च लेश्याद्रव्यपरिणाम उपपातसमयादारभ्याभवक्षयात् भवति इति । पूर्वोत्पन्नैश्च सुरकुमारैः प्रभूतानि तीत्रानुभागानि लेश्या द्रव्याणि अनुभूयानुभूय क्षयं नीतानि स्तोकानि मन्दानुभावान्यवतिष्ठन्ते ततस्ते पूर्वोत्पन्ना अविशुद्धलेश्याः पश्चादुत्पन्नास्तु तद्विपर्ययाद्विशुद्ध लेश्याः । 'बेयणाए जहा नेरइया' इति वेदनायां यथा नैरयिका उक्तास्तथा वक्तव्याः, तत्राप्यसन्जिनोऽपि लभ्यमानत्वात्, तत्र यद्यपि वेदनासूत्रं पाठतो नारकाणामिवासुरकुमाराणामपि तथापि भावनायां विशेषः, स चायं ये सज्जीभूतास्ते सम्यग्रदृष्टित्वात् महावेदनाः चारित्रविराधनाजन्यचित्तसन्तापात् इतरे तु असञ्जीभूता मिध्यादृष्टित्वादल्पवेदना इति, 'अवसेसं जहा नेरइयाणं' ति अवशेषं क्रियासूत्रमायुःसूत्रं च यथा नैरयिकाणां तथा वक्तव्यं, एतच सुगमत्वात् स्वयं परिभावनीयं 'एव' मित्यादि, एवमसुरकुमारोक्तेन प्रमाणेन नागकुमारादयोऽपि तावद्वक्तव्याः यावत्स्वनित
कुमाराः ॥
पुढ विकाइया आहारकम्मवन्नलेस्साहिं जहा नेरइया, पुढविकाइया सबै समवेयणा [१०] १, हंता गो० ! सबै समवेदणा, से
For Penal Lise Only
अत्र मूल-संपादने शीर्षक-स्थाने एका स्खलना दृश्यते-अत्र "उद्देश: १" एव वर्तते तत् स्थाने "उद्देश: २" इति मुद्रितं
~680~
१७लेश्यापदे उद्देशः
२
॥ ३३८ ॥
war