________________
आगम
(१५)
प्रत
सूत्रांक
[२०५ ]
दीप
अनुक्रम
[४४१]
प्रज्ञापना
या मल
य० वृत्ती.
॥ ३२९ ॥
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः)
मूलं [२०५]
उद्देशक: [-], दारं [-1, ... आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
पदं [१६],
मुनि दीपरत्नसागरेण संकलित..
इत्यादिना ग्रन्थेन खयमेव वक्ष्यति, तथा वंका-चक्रा सा चासौ गतिश्च वंकगतिः, सा च चतुर्द्धा तथथा-घट्ट नता स्तम्भनता लेषणता पतनता, तत्र घट्टनशब्दस्य भावः- प्रवृत्तिनिमित्तं घट्टनमेव वेति, एवं शेषपदशब्दार्थोऽपि भावनीयः, तत्र घट्टनं - खक्षा गतिः स्तम्भनं श्रीवायां धमण्यादीनां तिष्ठतो वाऽऽत्मनोऽङ्गप्रदेशानां श्लेषणं - ऊर्जादीनां जानुप्रभृतिभिः सम्बन्धः पतनं- तिष्ठत एव गच्छतो वा यल्लुटनं, एतानि च घट्टनादीनि जीवस्थानीप्सि तत्वादप्रशस्यत्वाच वंकगतिशब्दवाच्यानि, तथा पङ्के गतिः पङ्कगतिः पङ्कग्रहणमुदकस्याप्युपलक्षणं, तेन पके उदके वाऽतिदुस्तरं यदात्मीयं कार्य केनापि सहोद्वध्य तद्बलेन गच्छति सा पङ्कगतिः, बन्धनविमोचनगतिरिति बन्धमाद्विमोचनं बन्धनविमोचनं तेन गतिर्बन्धन विमोचनगतिः — यदा ग्रादिफलानामतिपरिपाकगतान।मत एव बन्धनाद्विच्युतानां यदधो विश्रसया - निर्व्याघातेन गमनं सा बन्धनविमोचनगतिरिति भावः, एतदेव सूत्रकृदुपदर्शयति'से किं तं पयोगगई' इत्यादि सुगममापदपरिसमाप्तेः, नवरं 'जंबुद्दीचे दीये भरहेरवयवासस्स सपक्खं सपडिदिसिं सिद्धिखेत्तोववायगई' इति जंबूद्वीपे द्वीपे यत् भरतवर्ष ऐरावतवर्षे च तयोरुपरि सिद्धिक्षेत्रोपपातगतिर्भवति, कथमित्याह-- 'सपक्षं सप्रतिदिक् च' तत्र सह पक्षाः पार्थाः पूर्वापरदक्षिणोत्तररूपाः यस्मिन् सिद्धिक्षेत्रोपपातगतिमवने ॥ ३२९ ॥ तत् सपक्षं सह प्रतिदिशो - विदिश जाय्यादयो यस्मिन् तत्सप्रतिदिक्, क्रियाविशेषणमेतत् एषोऽत्र भावार्थ:जंबूद्वीपे द्वीपे भरतैरावतवर्षयोरुपरि सर्वासु दिक्षु विदिधु च सर्वत्र सिद्धिक्षेत्रोपपातगतिर्भवतीति, एवं शेषसूत्रे
Internationa
For Park Use Only
~662~
१६ प्रयोगपदं