________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१६], --------------- उद्देशक: [-], --------------- दारं [-], --------------- मूलं [२०५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रज्ञापना-1
प्रत सूत्रांक [२०५]
य. वृत्ती.
॥३२८॥
दीप अनुक्रम [४४१]
जीवेन ब्यापार्यमाणानां यथायोगमल्पबहुदेशान्तरगमनात् १ । 'ततगई' इति तता-विस्तीर्णा सा चासौ गतिश्च | १६ प्रयोततगतिः, तथाहि-यं ग्राम सन्निवेशं वा प्रति प्रतिष्ठितो देवदत्तादिस्तं ग्रामादिकं यावदद्यापि न प्राप्नोति ताव-18 गपदं दन्तरा पथि एकैकस्मिन् पदन्यासे तत्तद्देशान्तरप्राप्तिलक्षणा गतिरस्तीति ततगतिः, इयं विस्तीर्णत्वविशेषणात् पृथगुपात्ता, अन्यथा प्रयोगगताववेयमन्तर्भवति, पादन्यासस्य शरीरप्रयोगात्मकत्वात् , एवमुत्तरत्रापि यथायोगं परि-IN भावनीयं २ तथा 'बंधणछेयणगई' इति, बन्धनस्य छेदनं बन्धनच्छेदनं तस्मात् गतिर्वन्धनच्छेदनगतिः, सा च | जीवेन विमुक्तस्य शरीरस्य शरीराद्वा विच्युतस्य जीवस्यावसातव्या, न तु कोशसम्बन्धविच्छेदादेरण्डवीजादेः, तथा विहायोगतिभेदत्वेन वक्ष्यमाणत्वात् ३। 'उबवायगई' इति, उपपातः-प्रादुर्भावः, स च क्षेत्रभवनोभवभेदात् त्रिविधः, तद्यथा-क्षेत्रोपपातो भवोपपातो नोभवोपपातश्च, तत्र क्षेत्रं-आकाशं यत्र नारकादयो जन्तवः सिद्धाः पुद्गला वा अवतिष्ठन्ते, भवः-कर्मसम्पर्कजनितो नैरयिकत्वादिकः पर्यायः, भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भव इति व्युत्पत्तेः, नोभवः-भवव्यतिरिक्तः कर्मसम्पर्कसम्पाद्यनैरयिकत्वादिपर्यायरहित इति भावः, स च पुद्गलः सिद्धो वा, उभयस्यापि यथोक्तलक्षणभवातीतत्वात् , उपपात एवं गतिरुपपातगतिरिति ४ । विहायसा-आकाशेन ॥२८॥ गतिर्विहायोगतिः, सा चोपाधिभेदात् सप्तदशविधा, तद्यथा-स्पृशद्गतिरित्यादि, तत्र परमाण्वादिकं यदन्येन परमाण्वादिकेन परस्परं संस्पृश्य संस्पृश्य-सम्बन्धमनुभूयानुभूयेत्यर्थः इति भावः गच्छति सा स्पृशद्गतिः, स्पृशतो
~660~