________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति पदं [१५], --------------- उद्देशक: [२], -------------- दारं [-], -------------- मूलं [१९९] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१९९]
यपदे
प्रज्ञापनया मलयवृत्ती. ॥३०॥
गाथा:
'इंदियंउवचय'इत्यादि, प्रथमत इन्द्रियाणामुपचयो वक्तव्यः, उपचीयते-उपचयं नीयते' इन्द्रियमनेनेत्युपचय:- १५इन्द्रिइन्द्रियप्रायोग्यपुद्गलसङ्ग्रहणसम्पत् , इन्द्रियपर्याप्तिरित्यर्थः, तदनन्तरं निवर्त्तना वक्तव्या, निर्वर्तना नाम बाह्याभ्य-15 न्तररूपा या निवृत्तिः-आकारमात्रस्य निष्पादनं, तदनन्तरं सा निर्वर्त्तना कतिसमया भवतीति प्रश्नेऽसङ्ख्येयाः
उद्देशः २ समयास्तस्या भवेयुरिति निर्वचनं वाच्यं, तत इन्द्रियाणां लब्धिः-तदावरणकर्मक्षयोपशमरूपा वक्तव्या, तत उपयोगाद्धा, तदनन्तरमल्पबहुत्वे चिन्त्यमाने पूर्वस्याः पूर्वस्याः उत्तरोत्तरा उपयोगाद्धा विशेषाधिका वक्तव्या, 'ओगाहणा' इति अवग्रहणं-परिच्छेदो वक्तव्यः, स च परिच्छेदोऽपायादिभेदादनेकधेति तदनन्तरमपायो वक्तव्यः, तत ईहा, तदनन्तरं व्यञ्जनायग्रहः, चशब्दस्यानुक्तार्थसमुचायकत्वादावग्रहश्च वक्तव्यः, तदनन्तरं द्रव्येन्द्रियमावेन्द्रियसूत्रं, ततोऽतीतवद्धपुरस्कृतानि द्रव्येन्द्रियाणि तदनन्तरंभावेन्द्रियाणि च चिन्तनीयानि । तत्र 'यथोद्देशं निर्देश'इति न्यायात् प्रथमत इन्द्रियोपचयसूत्रमाह-'कइविहे णं भंते ! इंदियउवचए पण्णत्ते' इत्यादि सुगम,नवरं 'जस्स जहदिया इत्यादि, यस्य नैरयिकादेर्यति-यावन्ति इंद्रियाणि सम्भवन्ति तस्य ततिविधः-तावत्प्रकार इन्द्रियोपचयो वक्तव्यः, तत्र नैरयिकादीनां स्तनितकुमारपर्यवसानानां पञ्चविधः पृथिव्यप्तेजोवायुवनस्पतीनामेकविधो द्वीन्द्रियाणां द्विविधः त्रीन्द्रियाणां त्रिवि-| घश्चतुरिन्द्रियाणां चतुर्विधः, तिर्यक्रपञ्चेन्द्रियमनुष्यन्यन्तरज्योतिष्कवैमानिकानां पञ्चविधः, क्रमवं-स्पर्शनरसन-18 घाणचक्षुःश्रोत्राणीति, एवमिन्द्रियनिर्व-नादिसूत्राण्यपि वेदितव्यानि, प्रायः सुगमत्वात् , नवरं 'इंदियउचओगद्धा'
दीप अनुक्रम
[४३३
-४३५]
~622~