________________
आगम
(१५)
प्रत
सूत्रांक
[१९५]
दीप
अनुक्रम
[४२५]
पदं [१५],
मुनि दीपरत्नसागरेण संकलित..
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः)
दारं [-1,
मूलं [१९५]
उद्देशक: [१], .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
च बालस्स । लिक्खा जूया य जवा, अट्ठगुणविवद्धिया कमसो ॥ १ ॥” [ परमाणुत्रसरेणू रथरेणुरग्रकं च वालस्य । लिक्षा यूका च यवोऽष्टगुणविवृद्धाः क्रमशः ॥ १ ॥ ] इत्यादिरूपमुच्छ्रयाल, तृतीयं - 'उस्सेहंगुल मेगं हबह पमाणंगुलं सहस्सगुणं । तं चैव दुगुणियं खलु वीरस्सायंगुलं भणियं ॥ १॥ [ उत्सेधाङ्गुलादेकस्मात् भवति प्रमाणाङ्गुलं सहस्रगुणम् । तदेव द्विगुणितं वीरस्यात्माङ्गुलं भणितम् ॥ १ ॥ इत्येवं प्रमाणाङ्गुलं, तत्रात्माङ्गुलेन मीयते तत्काले वापीकूपादिकं वस्तु उच्छ्रयाङ्गुलेन नरतिर्यग्देवनेर विकशरीराणि प्रमाणाङ्गुलेन पृथिवीविमानानि, उक्तं च- " आयंगुलेण वत्युं उस्सेहपमाणतो मिणसु देहं । नगपुढविविमाणाई मिणसु पमाणंगुलेणं तु ॥ १ ॥ [ आत्माङ्गुलेन वस्तु उत्सेधप्रमाणतो मिनु देहम् । नगपृथ्वीविमानानि मिनु प्रमाणाङ्गुलेनैव ॥ १ ॥ ] तत्रेदमिन्द्रियविषयपरिमाणं किमात्माङ्गुलेनाहोश्चित् उच्छ्रयाङ्गुलेन उत प्रमाणाङ्गुलेन १, उच्यते, आत्माङ्गुलेन, तथा चाह चक्षुरिन्द्रियविषयपरिमाणचिन्तायां भाष्यकृत् - "अप्पत्तकारि नयणं मणो य नयणस्स विसयपरिमाणं । आयंगुलेण लक्खं अइरित्तं जोअणाणं तु ॥ १ ॥” [ अप्राप्तकारि नयनं मनश्च नयनस्य विषयपरिमाणम् । आत्माङ्गुलेन लक्षमतिरिक्तं योजनानां तु ॥ १ ॥ ] ननु देहप्रमाणमुच्छ्रयाङ्गुलेन तु क्रियते देहाश्रितानि चेन्द्रियाणि ततस्तेषां विषयपरिमाणमपि उच्छ्रयाङ्गुलेन कर्त्तुमुचितं, कथमुच्यते आत्मानुलेनेति १, नैष दोषः, यद्यपि हि नाम देहाश्रितानीन्द्रियाणि तथापि तेषां विषयपरिमाणमात्माङ्गुलेनैव देहादन्यत्वाद्विषयपरिमाणस्य, तथा चामुमेवार्थमाक्षेपपुरस्सरं भाष्यकृदप्याह - "नणु भणियमुस्सयंगुलपमाणतो
Education Internationa
For Pernal Use Only
~603~