________________
आगम
(१५)
ཝཱ + རྫལླཱ ཡྻ
骂
[२४-२९]
“प्रज्ञापना”
पदं [१],
उद्देशक: [-], मूलं [१५] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
-
उपांगसूत्र- ४ (मूलं + वृत्ति:)
दारं [-]
Education an
यता उच्छासपर्याप्त्याऽपर्याप्ता एव म्रियन्ते, ततो न स्पष्टतरवर्णादिविभाग इत्यसंप्राप्ता इत्युक्तं, ननु कस्मादुच्छ्वासपर्याप्त्यैवापर्याता म्रियन्ते नार्वाक् शरीरेन्द्रियपर्याप्तिभ्यामपर्याप्ता अपि ?, उच्यते यस्मादागामिभवायुर्वद्धा म्रियन्ते सर्व एव देहिनो नावद्धा, तच शरीरेन्द्रियपर्याप्तिभ्यां पर्याप्तानां बन्धमायाति नान्यथेति, अन्ये तु व्याचक्षते - सामान्यतो वर्णादीनसंप्राप्ता इति, तच न युक्तं, यतः शरीरमात्रभाविनो वर्णादयः शरीरं च शरीरपर्याप्त्या सतमिति । 'तत्थ णं जे ते पञ्चत्तगा' इत्यादि, तत्र ये ते पर्याप्तकाः- परिसमाप्तखयो ग्यसमस्त पर्याप्तयः, एतेषां 'वर्णादेशेन' वर्णभेदविवक्षया एवं गन्धादेशेन रसादेशेन स्पर्शादेशेन 'सहस्राग्रश: ' सहस्रसङ्खवया विधानानि भेदाः, तद्यथा-वर्णाः कृष्णादिभेदात्पञ्च गन्धौ सुरभीतरभेदाद्वौ रसाः तिक्तादयः पञ्च स्पर्शा मृदुकर्कशादयोऽष्टी, एकैकस्मिंश्च वर्णादी तारतम्यभेदेनानेकेऽवान्तरभेदाः, तथाहि - भ्रमरकोकिलकज्जलादिषु तरतमभावात् कृष्णकृष्णतरकृष्णतमेत्यादिरूपतया अनेके कृष्णभेदाः, एवं नीलादिष्वप्यायोज्यं, तथा गन्धरसस्पर्शेष्यपि, तथा परस्परं वर्णानां संयोगतो धूसरकरत्वादयोऽनेकसङ्ख्या भेदाः, एवं गन्धादीनामपि परस्परं गन्धादिभिः समायोगाद्, अतो भवन्ति वर्णाद्यादेशैः सहस्राग्रशो भेदाः, 'सतेजाई जोणिप्पमुहसयसहस्साई ति सङ्खधेयानि योनिप्रमुखाणि -- योनिद्वाराणि शतसहस्राणि, तथाहि एकैकस्मिन् वर्णे गन्धे रसे स्पर्शे च संवृता योनिः पृथिवीका विकानां सा पुनस्त्रिधा - सचित्ता अचिता मिश्रा च, पुनरेकैका त्रिधा - शीता उष्णा शीताष्णा, शीतादीनामपि प्रत्येकं तारतम्यभेदादनेकभेदत्वं केवलमेवं विशि
For Praise Only
----------------
~59~
nary.org