SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [... १८०] दीप अनुक्रम [४०४] Education “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) पदं [१२], उद्देशक: [-], ------------- दारं [-], मूलं [... १८० ] मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [१५] उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः ग्रहणं, यदाह मूलटीकाकारः-- "सेतराणां ग्रहणमुत्कृष्टपदे, जघन्यपदे गर्भव्युत्क्रान्तिकानामेव केवलानां ग्रहण"मिति, अस्मिन् जघन्यपदे सङ्ख्या मनुष्याः, तत्र सङ्ख्येयकं सत्येयभेदभिन्नमिति न ज्ञायते कियन्तस्ते इति विशेषसङ्ख्यां निर्द्धारयति - सङ्ख्येयाः कोटीकोव्यः, अथवा इदमन्यत् विशेषतरं परिमाणं- 'तिजमलपयस्स उवरिं चउजमलपयस्स हेट्ठा' इति, इह मनुष्यसङ्ख्याप्रतिपादिकान्येकोनत्रिंशदङ्कस्थानानि वक्ष्यमाणानि, तत्र समयपरिभाषया अष्टानां अष्टानामङ्कस्थानानां यमलपदमिति संज्ञा, चतुविंशत्या चाङ्कस्थानैः त्रीणि यमलपदानि लब्धानि, उपरि पञ्चाङ्कस्थानानि तिष्ठन्ति, अथ च यमलपदमष्टभिरङ्कस्थानैस्ततश्चतुर्थे यमलपदं न प्राप्यते तत उक्तं त्रयाणां यमलपदानामुपरि - पञ्चभिरङ्कस्थानैर्वर्द्धमानत्वात् चतुर्थस्य च यमलपदस्याधस्तात् - त्रिभिरङ्कस्थानैर्हीनत्वात्, अथवा द्वौ द्वौ वर्गों समुदितौ एकं यमलं चत्वारो वर्गाः समुदिता द्वे यमले पड् वर्गाः समुदितास्त्रीणि यमलपदानि अष्टौ वर्गाः समुदिताश्चत्वारि यमलपदानि, तत्र यस्मात् षण्णां वर्गाणामुपरि वर्त्तन्ते सप्तमस्य च वर्गस्याधस्तात् तत उक्तंत्रियमलपदस्योपरि चतुर्यम लपदस्याधस्तादिति, त्रियमलपदस्येति - त्रितवानां यमलपदानां समाहारस्त्रियमलपदं तस्य, तथा चतुर्णां यमलपदानां समाहारश्चतुर्यमलपदं तस्य, सम्प्रति स्पष्टतरं सङ्ख्यानमुपदर्शयति- 'अहव णं छट्ट 'वग्गो पंचमवग्गपप्पण्णो' इति अथवेति पक्षान्तरे णमिति वाक्यालङ्कारे षष्ठो वर्गः पञ्चमवर्गेण प्रत्युत्पन्नो-गुणितः सन् यावान् भवति तावत्प्रमाणा जघन्यपदे मनुष्याः, तत्र एकस्य वर्ग एक एव स च वृद्धिं न गत इति वर्गो न For Parts Only ~ 563~ [nary or
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy