________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ---------------- उद्देशक: [-], --------------- दारं [-], -------------- मूलं [१६२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१६२]
दीप अनुक्रम [३७६]
वहाराश्रितं प्रतिपादयितुमिष्यते तदैवं न वक्तव्यमव्यापकत्वात् , यथा चाव्यापकता तथा प्रागेव लेशतो दर्शिता, विस्तरतस्तु खोपज्ञशब्दानुशासनविवरणे, तत इयं तदधिकृत्य प्रज्ञापनी, यदा तु बेदानुगतं प्रतिपादयितुमिप्यते । तदा यथावस्थितार्थाभिधानात् प्रज्ञापन्येव, न मृषेति । 'अह भंते ! जा जातीति इत्थिवऊ' इत्यादि, अथ भदन्त ।। या जातिः स्त्रीवाक् जातौ स्त्रीवचनं सत्तेति, या जातौ पुंवाक् पुवचनं भाव इति, या च जातौ नपुंसकवाक् सामान्यमिति, प्रज्ञापनी एपा भाषा नैषा भाषा भूषेति !, कोऽत्राभिप्राय इति चेत्, उच्यते, जातिरिह सामान्यमुच्यते, सामान्यस्य च न लिङ्गसमयाभ्यां योगो, वस्तूनामेव लिङ्गसङ्ख्याभ्यां योगस्य तीर्थान्तरीयैरभ्युपगमात् , ततो यदि परं। जातावौत्सर्गिकमेकवचनं नपुंसकलिङ्गं चोपपद्येत न त्रिलिङ्गता, अथ च त्रिलिङ्गाभिधायिनोऽपि शब्दाः प्रवर्त्तन्ते । यथोक्तमनन्तरं ततः संशयः-किं एषा भाषा प्रज्ञापनी उत नेति ?. अथ भगवानाह-हता गोयमा ' इत्यादि.IN अक्षरार्थः सुगमः, भावार्थस्त्वयं-जाति म सामान्यमुच्यते, सामान्यं च न परिकल्पितमेकमनवयवमक्रियं, तस्य प्रमाणबाधितत्वात् , यथा च प्रमाणबाधितत्वं तथा तत्त्वार्थटीकायां भावितमिति ततोऽवधार्य, किन्तु समानः परिणामो 'वस्तुन एव समानः परिणामो यः स एव सामान्य' मिति वचनात्, समानपरिणामश्चानेकधर्मात्मा, धर्माणां परस्परं धर्मिणोऽपि च सहान्योऽन्यानवेधाभ्युपगमात् तथा प्रमाणेनोपलब्धेः, ततो घटते जातेरपि त्रिलिङ्गतेति || प्रज्ञापन्येपा भाषा, नैपा भाषा मृषेति । 'अह भंते !' इत्यादि, अथ भदन्त ! या जातिरुयाज्ञापनी-जातिमधिकृत्य
~ 505~