SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१] ................... उद्देशक: [-], ---------------- दारं [-1, .. - मूल [...४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सुत्राक रेषु स्कन्धेषु ये व्यवहारतः केवलकृष्णवर्णाद्युपेता अपान्तरालस्कन्धा यथा देहस्कन्ध एव लोचनस्कन्धः कृष्णस्तदन्तगत एव कश्चिलोहितोऽन्यस्तदन्तर्गत एव शुक्ल इत्यादि ते इह विवक्ष्यन्ते, तेषां चान्यद्वर्णान्तरादि न सम्भवति, स्पर्शचिन्तायां त्ववधिकृतस्पर्श प्रति प्रतिपक्षव्यतिरेकेणान्ये स्पर्शा लोकेऽप्यविरोधिनो दृश्यन्ते ततो यथोक्तैव भङ्गस- या, साऽपि च परिस्थूरन्यायमङ्गीकृत्याभिहिता, अन्यथा प्रत्येकमप्येषां तारतम्येनानन्तत्वादनन्ता भङ्गाः संभवन्ति, एतेषां च वर्णादिपरिणामानां जघन्यतोऽवस्थानमेकं समयमुत्कर्षतोऽसङ्खयेयं कालम् , सम्प्रत्युपसंहारमाह'सेतं रूविअजीवपन्नवणा, सेत्तं अजीवपन्नवणा' सैषा रूप्यजीवप्रज्ञापना, सैषाजीवप्रज्ञापना ॥ साम्प्रतं जीवप्रज्ञापनामभिधित्सुस्तद्विषयं प्रश्नसूत्रं चा(त्रमा)हसे कि तंजीवपन्नवणा,२ दुविहा पन्नत्ता, तंजहा-संसारसमावण्णजीवपन्नवणा य असंसारसमावण्णजीवपष्णवणा य (सू०५)। अथ का सा जीवप्रज्ञापना, सूरिराह-जीवप्रज्ञापना द्विविधा प्रज्ञप्ता, तद्यथा-संसारसमापनजीवप्रज्ञापना चासंसारसमापन्नजीवप्रज्ञापना च, तत्र संसरणं संसारो-नारकतिर्यगनरामरभवानुभवलक्षणतं सम्यग्-एकीभा-| विनापन्नाः संसारसमापन्नाः, संसारवर्तिन इत्यर्थः, तेच ते जीवाश्च तेषां प्रज्ञापना संसारसमापन्नजीवप्रज्ञापना, न संसारोऽसंसारो-मोक्षस्तं समापन्ना असंसारसमापना मुक्ता इत्यर्थः, ते च ते जीवाब तेषां प्रज्ञापनाऽसंसारसमाप1. एवं वर्णस्य भेदाः १००, गन्धस्य भेदाः ४६, रसस्य भेदाः १००, स्पर्शस्य भेदाः १८४, संस्थानस्य भेदाः-१००, एवं च ५३०. 72020302929322000202 (४) दीप अनुक्रम [१३] Santauraton . अत्र 'जीव-प्रज्ञापना' आरभ्यते ~ 39~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy