________________
आगम
(१५)
प्रत
सूत्रांक
[८३]
दीप
अनुक्रम
[ २८७]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:)
पदं [३],
उद्देशक: [-], -------------- दारं [२५],
मूलं [८३]
मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [१५] उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
ते तथा तिर्यग्योनिकख्यायुः प्रतिसंवेदनात् तिर्यग्योनिकस्त्रियश्च ततः सङ्ख्येयगुणाः, साभ्योऽघोलोकति ग्लोके - अधोलोकतिर्यग्लोकसज्ञे प्रतरद्वये वर्त्तमानाः सत्येयगुणाः, वहको हि नारकादयः समुद्घातमन्तरेणापि तिर्यलोके तिर्यक्पचेन्द्रिय स्त्रीत्वेनोत्पद्यन्ते तिर्यग्लोकवर्त्तिनश्च जीवास्तिर्यग्योनिकस्त्रीत्वेनाधोलौकिक ग्रामेष्वपि च ते तथोत्पद्यमाना यथोक्तं प्रतरद्वयं स्पृशन्ति तिर्यग्योनिकरुयायुः प्रतिसंवेदनाथ तिर्यग्योनिक लियोऽपि तथाऽघोलौकिकप्रामा योजनसहस्रावगाहाः पर्यन्तेऽर्वाक् क्वचित्प्रदेशे नवयोजनशतावगाहा अपि तत्र काश्चित्तिर्यग्योनिकस्त्रियोऽवस्थानेनापि यथोक्तप्रतरद्वयाध्यासिन्यो वर्त्तन्ते ततो भवन्ति पूर्वोक्ताभ्यः सधेयगुणाः, ताभ्योऽधोलोके सोयगुणाः, यतोऽघोलौकिकग्रामाः सर्वेऽपि च समुद्रा योजनसहस्रावगाहाः ततो नवयोजनशतानामधस्तात् या वर्त्तन्ते मत्सीप्रभृतिकास्तिर्यग्योनिक स्त्रियस्ताः स्वस्थानत्वात् प्रभूता इति सङ्ख्येयगुणाः, क्षेत्रस्य सशवेयगुणत्वात्, ताभ्यस्तिर्य ग्लोके सङ्ख्येयगुणाः । उक्तं तिर्यग्गतिमप्यधिकृत्याल्पबहुत्वम् इदानीं मनुष्यगति विषयमाह- क्षेत्रानुपातेन मनुष्याश्चिन्त्यमानास्त्रैलोक्ये - त्रैलोक्यसंस्पर्शिनः सर्वस्तोकाः, यतो ये ऊर्द्धलोकादधोलौकिक ग्रामेषु समुत्पित्सवो मारणान्तिकसमुद्घातेन समवहता भवन्ति ते केचित् समुद्घातवशाद् वहिर्निर्गतैः खात्मप्रदेशैखीनपि लोकान् स्पृशन्ति येऽपि चान्ये वैक्रियसमुद्घातमाहारक समुद्घात का गताः [प्राप्ताः ] तथाविधप्रयत्नविशेषात् दूरतरमूर्द्धाधोविक्षिप्तात्मप्रदेशाः ये च केवलिसमुद्घातगतास्तेऽपि त्रीनपि लोकान् स्पृशन्ति स्तोकाचेति सर्वस्तोकाः,
For Parts Only
~ 297~