________________
आगम
(१५)
प्रत
सूत्रांक [४६ ]
+
गाथा
दीप
अनुक्रम
[२०३
-२०४]
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्ति:)
पदं [२],
दारं [-],
उद्देशक: [-] मूलं [ ४६... ] + गाथा ( १२९) मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
पञ्चवर्णसुरभिमुक्तपुष्पपुञ्ज पचारकलितानि, 'कालागुरुपवरकुन्दुरुक्कतुरुकधूवमघमघंतगन्धुद्धूयाभिरामे' इति काला| गुरुः प्रसिद्धः प्रवरः - प्रधानः कुन्दुरुकः- चीडा तुरुष्कं - सिल्हकं कालागुरुथ प्रवरकुन्दुरुक्कतुरुष्के च कालागुरुप्रवरकुन्दुरुक्कतुरुष्काणि तेषां धूपस्य यो मघमघायमानो गन्ध उद्भूत - इतस्ततो विप्रसृतस्तेनाभिरामाणि - रमणीयानि कालागुरुप्रवरकुन्दुरुक्कतुरुष्क धूप मघमघायमानगन्धोद्भूताभिरामाणि तथा शोभनो गन्धो येषां ते सुगन्धाः ते च ते वरगन्धाश्च - वासाः सुगन्धवरगन्धास्तेषां गन्धः स एष्यस्तीति सुगन्धवरगन्धगन्धिकानि, “अतोऽनेकस्वरात् " इति इकप्रत्ययः, अत एव गन्धवर्तिभूतानि – सौरभ्यातिशयाद् गन्धद्रव्यगुटिका कल्पानीति भावः, तथा अप्सरोगणानां संघः-समुदायः तेन सम्यक् - रमणीयतया विकीर्णानि व्याप्तानि अप्सरोगणसङ्घविकीर्णानि, तथा दिव्यानां त्रुटितानाम् - आतोद्यानां वेणुवीणामृदङ्गादीनां ये शब्दास्तैः संप्रणदितानि सम्यक् - श्रोतृमनोहारितया प्रकर्षेण | सर्वकालं नदितानि - शब्दवन्ति, 'सर्वरत्नमयानि' सर्वात्मना - सामस्त्येन न त्वेकदेशेन रत्नमयानि समस्तरत्वमयानि वा, अच्छानि - आकाशस्फटिकवदतिखच्छानि श्रक्ष्णानि - श्लक्ष्णपुद्गलस्कन्धनिष्पन्नानि श्४क्ष्णदलनिष्पन्नपटवत्, 'लण्डानि' मसृणानि घुष्टितपटवत्, 'घट्टा' इति घृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावत्, 'मट्ठा' इति, मृष्टानि, सुकुमारशाणया पाषाणप्रतिमेत्र, अत एव नीरजांसि खाभाविकरजोरहितत्वाद् निर्मलानि आगन्तुकमलाभावात् निष्पक्ङ्कानि - कलङ्कविकलानि कर्दमरहितानि वा 'निकंकडच्छाया' इति निष्कङ्कटा-निष्कवचा निरावरणा
For Parata Lise Only
~ 177 ~