________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], --------------- उद्देशक: [-], ------------- दारं [-1, ---- --------- मूलं [...३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३७]]
विद्यते येन तदाश्रित्यापवादसेविता स्यात् , एप हि सर्वत्र निरपेक्षः क्लिष्टकर्मक्षयनिमित्तं प्रारब्धमेव खं कल्पं यथोक्तविधिना समापयन् महात्मा वर्तते, उक्तं च-कारणमालंबणमो तं पुण नाणाइ सुपरिसुद्धं । एअस्स तं न विजइ उचियं तवसाहणो पायं ॥ १ ॥ सवत्थ निरवयक्खो आढत्तं चिय दई समाणतो । बट्टा एस महप्पा किलिट्टकम्मक्खयनिमित्तं ॥२॥" १७ । निष्प्रतिकर्मताद्वारे-एष महात्मा निष्प्रतिकर्मशरीरः अक्षिमलादिकमपि कदाचिन्नापनयति, न च प्राणान्तिकेऽपि समापतिते व्यसने द्वितीयं पदं सेवते, उक्तं च-"निप्पडिकम्मसरीरो अच्छिमलाई वि नावणेइ सया । पाणन्तिएऽविय महावसणंमि न वट्टए बीए ॥१॥ अप्पबहुत्तालोयणविसयातीओ उN होइ एसत्ति । अहवा सुहभावाओ बहुगं एयं चिय इमस्स ॥२॥"१८ । भिक्षाद्वारे-भिक्षा विहारक्रमच तृतीयस्या पीरुभ्यां भवति, शेषासु च पौरुषीषु कायोत्सर्गः, निद्राऽपि चास्याल्पा द्रष्टव्या, यदि पुनः कथमपि जवाबलमस्सी परिक्षीणं भवति तथाऽप्येषोऽविहरन्नपि महाभागो न द्वितीयपदमापद्यते, किन्तु तत्रैव यथाकल्पमात्मीयं योगं विदधातीति, उक्तं च-"तइयाए पोरसीए भिक्खाकालो बिहारकालो उ । सेसासु उस्सग्गो पायं अप्पा य निद्दत्ति ॥१॥ जंघावलंमि खीणे अविहरमाणोऽपि न परमावजे । तत्थेव अहाकप्पं कुणइ उ जोग महाभागो ॥२॥" १९ । (पन्धे|ऽष्ट सस वा २०) एते च परिहारविशुद्धिका द्विविधाः, तद्यथा-इत्वरा यावत्कथिकाश्च, तत्र ये कल्पसमाप्त्यनन्तरं | तमेव कल्पं गच्छं वा समुपयास्यन्ति ते इत्वराः, ये पुनः कल्पसमात्यनन्तरमव्यवधानेन जिनकल्प प्रतिपत्स्यन्ते ते
दीप
अनुक्रम [१९०]
amana
K
aranora
~139~