________________
आगम
(१५)
प्रत
सूत्रांक
[३७]
दीप
अनुक्रम
[१९० ]
प्र.१२.
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
उद्देशक: [-], दार [-], मूलं [... ३७] ... आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि प्रणीत वृत्तिः
पदं [१]. मुनि दीपरत्नसागरेण संकलित..
विवक्षितकल्पोचितसामाचार्ययोगात् ९ । लेश्याद्वारे - तेजःप्रभृतिकासूत्तरासु तिसृषु विशुद्धासु लेश्यासु परिहार - विशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनः सर्वाखपि कथञ्चिद् भवति, तत्रापीतराखविशुद्धलेश्यासु नात्यन्तसंक्तिशसु वर्तते, तथाभूतासु वर्तमानो (ऽपि न प्रभूतकालमवतिष्ठते, किंतु स्तोकं, यतः खवीर्यवशात् झटित्येव ताभ्यो व्यावर्तते, अथ प्रथमत एव कस्मात् प्रवर्तते १ उच्यते, कर्मवशात् उक्तं च- "लेसासु विसुद्धा पडिवजह तीसु न उण सेसासु । पुवपडिवन्नओ पुण होज्जा सदासुवि कहंचि ॥ १ ॥ णऽयंतसंकिलिद्वासु थोत्रं कालं स हंदि इयरासु । चित्ता कम्माण गई तहा विवरीयं (वि विरियं) फलं देव || २ ||” १० । ध्यानद्वारे - धर्मध्यानेन प्रवर्धमानेन परिहारविशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनरार्त्तरौद्रयोरपि भवति, केवलं प्रायेण निरनुबन्धः, आह च"झाणंमिवि धम्मेणं पडिवज्जर सो पत्रमाणेणं । इयरेसुवि झाणेसुं पुवपवन्नो न पडिसिद्धो ॥ १ ॥ एवं च झाणजोगे उद्दामे तिवकम्मपरिणामा । रोद्दऽसुवि भावो इमस्स पायं निरणुबन्धो ॥२॥” ११ । गणनाद्वारे - जघन्यतः त्रयो गणाः प्रतिपद्यन्ते, उत्कर्षतस्तु शतसंख्याः, पूर्वप्रतिपन्ना जघन्यत उत्कृष्टतो वा शतशः, पुरुषगणनया जघन्यतः प्रतिपद्यमानाः सप्तविंशतिः उत्कर्षतः सहस्रं, पूर्वप्रतिपन्नकाः पुनर्जघन्यतः शतशः उत्कर्षतः सहस्रशः, आह च - "गणओ तिन्नेव गणा जहन्न पडिवत्ति सहस उक्कोसा । उकोस जद्दन्नेणं सयसोचिय पुचपडिवन्ना ॥ १ ॥ सत्तावीस जहन्ना सदस्समुकोसओ य पडिवत्ती । सयसो सहस्ससो वा पडिबन्न जहन्नउकोसा ॥ २ ॥ " अन्यथ
For Par Lise Only
~ 137~
andrary c