________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], --------------- उद्देशक: [-], ------------- दारं [-], ---- --------- मूलं [...३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३७]]
तीर्थद्वारे परिहारविशुद्धिको नियमतस्तीर्थे प्रवर्तमाने एव सति भवति, न तच्छेदे नानुत्पत्त्यां वा तदभावे जातिस्मरणादिना, उक्तं च-"तित्यत्ति नियमतोचिय होइ स तित्थंमि न उण तदभावे । विगएऽणुप्पन्ने वा जाइसरणाइएहितो॥१॥" पर्यायद्वारे-पर्यायो द्विधा-गृहस्थपर्यायो यतिपर्यायश्च, एकैकोऽपि द्विधा-जघन्यत उत्कृतश्च, तत्र गृहस्थपर्यायो जघन्यत एकोनत्रिंशद् वर्षाणि,यतिपर्यायो विंशतिः, द्वावपि च उत्कर्षतो देशोनपूर्वकोटिप्रमाणी, उक्तं च-"एयस्स एस नेओ गिहिपजाओ जहन्निगुणतीसा । जइपजाओ वीसा दोसुवि उकोस देसूणा ॥१॥५॥" आगमद्वारे-अपूर्वमागर्म स नाधीते,यस्मात् तं कल्पमधिकृत्य प्रगृहीतोचितयोगाराधनत एव स कृतक-II त्यतां भजते, पूर्वाधीतं तु विस्रोतसिकाक्षयनिमित्तं नित्यमेवैकाग्रमनाः सम्यक् प्रायेणानुस्मरति, आह च-"अप्पुवं नाहिजइ आगममेसो पडुच्च तं कप्पं । जमुचियपगहिअजोगाराहणओ चेव कयकिच्चो ॥१॥ पुवाहीयं तु तयं पायमणुसरइ निचमेवेस । एगग्गमणो सम्मं विस्सोयसिगाइखयहेऊ ॥२॥६॥" वेदद्वारे-प्रवृत्तिकाले वेदतः पुरुष
१ तीर्थमिति नियमत एव भवति स तीथें न पुनस्तभावे । विगतेऽनुत्पन्ने वा जातिस्मरणादिमिः ॥ १॥ २ एतस्वैप ज्ञातव्यो गृहिपर्यायो जघन्यत एकोनत्रिंशत् । यतिपर्यायो विंशतिः योरप्युत्कर्षतो देशोना (पूर्वकोटी) ॥१॥ ३ अपूर्व नाधीते आगममेष प्रतीय तं कल्पम् । यदुचितप्रगृहीतयोगाराधनतश्चैव कृतकृत्यः ॥ १॥ पूर्वाधीतं तु तत् प्रायोऽनुस्मरति नित्यमेवैषः । एकापमनाः सम्यक् विश्रोतसिकादिश्यहेतोः ॥२॥
दीप
अनुक्रम [१९०]
SNEniaNP
~ 135~