________________
आगम
(१५)
प्रत
सूत्रांक
[३४८]
दीप
अनुक्रम [६२०]
"प्रज्ञापना"
उपांगसूत्र-४ (मूलं+वृत्ति:)
उद्देशक: [-] दारं [-] मूलं [ ३४८ ] .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
पदं [ ३६ ],
मुनि दीपरत्नसागरेण संकलित..
-
निष्ठितार्थो भवति ?, स च 'वर्त्तमानसामीप्ये वर्त्तमानवद्वेति वचनात् सेत्स्यन्नपि व्यवहारत उच्यते तत आहबुध्यते-अवगच्छति केवलज्ञानेन यथाऽहं निश्चयतो निष्ठितार्थो भविष्यामि निःशेषकर्माशापगमतः तत आहमुच्यतेऽशेषकर्माशैरिति गम्यते, सुज्यमानश्च कर्माणुवेदनापरितापरहितो भवति तत आह-परिनिर्वाति सामस्त्येन शीतीभवति, समस्तमेतदेकेन पर्यायेण स्पष्टयति - सर्वदुःखानामन्तं करोतीति, भगवानाह - गौतम ! नायमर्थः समर्थी - नायमर्थः सङ्गतो यः समुद्घातं गतः सर्वदुःखानामन्तं करोतीति, योगनिरोधस्याद्याप्यकृतत्वात्, सयोगस्य च वक्ष्यमाणयुक्त्या सिद्ध्यभावादिति भावः, ततः किं करोतीत्यत आह- 'से ण'मित्यादि, सःअधिकृतसमुद्घातगतः णमिति वाक्यालङ्कारे ततः समुद्घातात् प्रतिनिवर्त्तते, प्रतिनिवर्त्य च ततः --- प्रतिनिवर्त्तनात् पश्चादनन्तरं मनोयोगमपि वाग्योगमपि काययोगमपि युनक्ति-व्यापारयति यतः स भगवान् भवधारणीयकर्मसु नामगोत्रवेदनीयेष्वचिन्त्यमाहात्म्यसमुद्घातवशतः प्रभूतेष्वायुषा सह समीकृतेष्वप्यन्तर्मुहूर्त्त - भाविपरमपदत्वतस्तस्मिन् काले यद्यनुत्तरोपपातिकादिना देवेन मनसा पृच्छयते तर्हि व्याकरणाय मनःपुद्गलान् गृहीत्वा मनोयोगं युनक्ति, तमपि सत्यमसत्यामृषारूपं या, मनुष्यादिना पृष्टः सन्नपृष्टो वा कार्यवशतो वाक्पुद्गलान् गृहीत्वा वाग्योगं तमपि सत्यमसत्यामृषा था, न शेषान् वाग्मनसोर्योगान्, क्षीणरागादित्वात्, | आगमनादौ चौदारिकादिकाययोगं, तथाहि —भगवान् कार्यवशतः कुतश्चित् स्थानात् विवक्षिते स्थाने आगच्छेत्,
For Pale On
~ 1215~