________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], -------------- उद्देशक: [२], -------------- दारं [१-३], ------ ----- मूलं [३०९] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३०९]
इए णं भंते! किं आहारए' इत्यादि सुगम, तदेवं सामान्यतो जीवपदे नैरयिकादिषु चैकवचनेन आहारकानाहारकत्वचिन्ता कृता, सम्प्रति बहुवचनेन तां चिकीर्षुराह-'जीवाणं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम!
आहारका अपि अनाहारका अपि, सदैव बहुवचनविशिष्टा उभयेऽपि लभ्यन्ते इति भावः, तथाहि-विग्रहगतिव्यतिकरकेण शेषकालं सर्वेऽपि संसारिणो जीवा आहारकाः, विग्रहगतिस्तु कचित् कदाचित् कस्यचित्तु भवतीति सर्वकाल
मपि लभ्यमाना सा प्रतिनियतानामेव लभ्यते तत आहारकेषु बहुवचनं, अनाहारका अपि सिद्धाः सदैव लभ्यन्ते, ते चाभव्येभ्योऽनन्तगुणाः, अन्यच-सर्वकालमेकेकस्य निगोदस्य प्रतिसमयमसङ्घयभागो विग्रहगत्यापन्नो लभ्यते, ततोऽनाहारफेष्वपि बहुवचनं, नैरयिकसूत्रे सर्वेऽपि तावद्भवेयुराहारकाः१, किमुक्तं भवति?-कदाचिन्नेरयिकाः सर्वेऽ-16 प्याहारका एव भवन्ति, न त्वेकोऽप्यनाहारका, कथमिति चेत् , उच्यते, उपपातविरहात्, तथाहि-नैरयिकाणामुपपातबिरहो द्वादश मुहर्ताः, एतावति चान्तरे पूर्वोत्पन्नविग्रहगत्यापन्ना अपि आहारका जाताः, अन्यस्त्वनुत्पद्यमान-18 त्वात् अनाहारको न सम्भवतीति, अथवा आहारका अनाहारकाश्च २ आहारकपदे बहुवचनं अनाहारकपदे एकवच-18 नमिति भावः, कथमेष भको घटामियतीति चेत्, उच्यते, इह नरकेषु जन्तुः कदाचिदेक उत्पद्यते कदाचिट्ठी कदाचित् जयश्चत्वारो यावत्सङ्ख्याता असङ्ख्याता वा, तत्र यदा एक उत्पद्यते सोऽपि च विग्रहगत्यापन्नोऽपि भवति अन्ये च पूर्वोत्पन्नतया आहारका अभवन् तदा एष भङ्गो लभ्यते, तृतीयभङ्गमाह-अहवा आहारगा य अणाहारगा य ३,
2032002020200000
गाथा
दीप
अनुक्रम
[५५८
-५६१]
~1029~