________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [९], --------------------- उद्देशक: [-], ------------------- मूलं [२४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [3] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२४३]
अपढमसमयएगिदिया अर्णतगुणा ।। (सू० २४३) । सेतं दसविहा संसारसमावण्णगा जीवा
पण्णत्ता, सेत्तं संसारसमावण्णगजीवाभिगमे। 'तत्थेत्यादि, तत्र ये ते एवमुक्तवन्तो दशविधा: संसारसमापन्ना जीवाः प्रज्ञापाले एवमुक्तवन्तस्तद्यथा-प्रथमसमयकेन्द्रिया अप्रथमसमयैकेन्द्रियाः प्रथमसमयद्वीन्द्रिया अप्रथमसमयद्वीन्द्रियाः प्रथमसमयत्रीन्द्रिया अप्रथमसमयत्रीन्द्रियाः प्रथमसमयचतुरिन्द्रिया अप्रथमसमयचतुरिन्द्रियाः प्रथमसमयपश्चेन्द्रिया अप्रथमसमयपञ्चेन्द्रिया: प्रथमसमयाप्रथमसमयव्याख्यानं पूर्ववत्। साम्प्रतमेतेपामेच दशानां क्रमेण स्थिति निरूपयति-पढमसमये त्यादि, प्रथमसमयैकेन्द्रियस्य भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, भगवानाह-गौतम! एकं समय, द्वितीयादिषु समयेषु प्रथमसमयत्वविशेषणस्यायोगात् , एवं प्रथमसमयद्वीन्द्रियादिसूत्रेष्वपि वक्तव्यं, अप्रथमसमयकेन्द्रियसूत्रे जघन्यतः क्षुल्लकभवपाहणं-षट्पश्चाशदधिकावलिकाशतद्वयप्रमाणं समयोनं, समयोनता प्रथमसमयेऽप्रथमसमयथायोगात् , उत्कर्षतो द्वाविंशतिवर्षसहस्राणि समयोनानि, प्रथमसमयेन हीनत्वात् , अप्रथमसमयद्वीन्द्रियसूत्रे जघन्यं पूर्ववन् , उत्कर्षतो द्वादश संवत्सरा: समयोना:, अप्रथमसमयत्रीन्द्रियसूत्रेऽपि जघन्य तथैव, उत्कर्षत एकोनपञ्चाशद्वानिन्दिवानि समयोनानि, अप्रथमसमयचतुरिन्द्रियसूत्रेऽपि जघन्यं तथैव, उत्कर्षतः षण्मासाः समयोनाः, अप्रथासमयपश्चेन्द्रियसूत्रे जघन्य प्राग्बत् , उत्कर्षतस्रयविंशत्सागरोपमाणि समयोनानि, समयोनता सर्वत्रापि प्रथमसमयेन हीना प्रतिपत्तव्या ॥ साम्प्रतमेतेषां क्रमेण कायस्थितिमाह-'पढमसमये' इत्यादि, प्रथमसमयैकेन्द्रियो भदन्त ! प्रथमसमयैकेन्द्रिय इति-प्रथमसमय केन्द्रियत्वेन कालत: 'कियश्चिरं' कियन्तं कालं याबद्भवति ?, भगवानाह
दीप अनुक्रम [३६८]
~870~