________________
आगम
(१४)
प्रत
सूत्रांक
[२१०
-२१५]
दीप
अनुक्रम
[३२७
-३३२]
"जीवाजीवाभिगम"
प्रतिपत्तिः [३],
मुनि दीपरत्नसागरेण संकलित
-
उपांगसूत्र-३ (मूलं+वृत्तिः)
उद्देशक: [ ( वैमानिक)-२],
मूलं [२१०-२१५]
आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
दीनामसम्भवात्, तथा चाह— 'नेवट्टी' इत्यादि, नैवास्थि तेषां शरीरेषु नापि शिरा - प्रीवाधमनिर्नापि स्नायूंषि शेषं शिराजाल, किन्तु ये पुद्गला इष्टाः कान्ताः प्रिया मनोज्ञा मनआपतरा एतेषां व्याख्यानं प्राग्वत् ते तेषां सङ्घाततया परिणमन्ति ततः संहननाभाव:, एवं तावद्वाच्यं यावदनुत्तरोपपातिकानां देवानां ॥ सम्प्रति संस्थानप्रतिपादनार्थमाह - 'सोहम्मीसाणेसु' इत्यादि प्रभसूत्रं सुगमं, भगवानाह - गौतम! तेषां शरीरकाणि द्विविधानि प्रज्ञप्तानि तद्यथा-भवधारणीयानि उत्तरखैक्रियाणि च तत्र यद् भवधारणीयं तत्समचतुरस्रसंस्थानसंस्थितं प्रज्ञतं देवानां भवप्रत्ययतः प्रायः शुभनामकर्मोदयभावान्, तत्र यदुत्तरवैकियं तत् नानासंस्थानसंस्थितं प्रज्ञप्तं, तस्येच्छया निर्वर्त्त्यमानत्वात् एवं तावद्वक्तव्यं यावदच्युतः कल्पः, 'गेविज्जगदेवाण मित्यादि प्रनसूत्रं सुगमं, भगवानाह-गौतम! मैवेयकदेवानामेकं भवधारणीयं शरीरं तच समचतुरस्रसंस्थान संस्थितं प्रज्ञप्तं, एवमनुत्तरोपपातिसूत्रमपि । अधुना वर्णप्रतिपादनार्थमाह- 'सोहम्मी'त्यादि, सौधर्मेशानयोर्भेदन्त ! कल्पयोर्देवानां शरीरकाणि कीदृशानि वर्णेन प्रज्ञप्तानि ?, भगवानाहगौतम ! कनकत्वयुक्तानि कनकत्वगिव रक्ता आभा-छाया येषां तानि तथा वर्णेन प्रज्ञप्तानि, उत्तप्तकनकवर्णानीति भावः, एवं शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमार माहेन्द्रयोर्ब्रह्मलोकेऽपि च पद्मपक्ष्मगौराणि, पद्मकेसर तुल्यावदातवर्णानीति भावः, ततः परं लान्तकादिषु यथोत्तरं शुशुकृतरशुकृतमानि अनुत्तरोपपातिनां परमशुक्लानि, उक्तञ्च " कणगचयरताभा सुरवसभा दोसु होंति कप्पे । तिस्रु होंति पन्हगोरा तेण परं सुकिला देवा ॥ १ ॥” सम्प्रति गन्धप्रतिपादनार्थमाह – 'सोहम्मी' व्यादि प्रनसूत्रं सुगमं, भगवानाह - गौतम! 'से जहानामए - कोपुडाण वा' इत्यादि विमानवद्भावनीयं एवं तावद्वक्तयं यावदनुत्तरोपपातिनाम् । स|म्प्रति स्पर्शप्रतिपादनार्थमाह- 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीदृशानि स्पर्शेन प्रज्ञप्तानि ?,
For P&Praise Cly
~804~