________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ------------- उद्देशक: [(द्विप्-समुद्र)], --------- मूलं [१८२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
2
प्रत सूत्रांक [१८२]
-22
दीप अनुक्रम [२९३]
पतापितः, तदानामद्वारः (उद्दाव:)-स्थानान्तरेष्वद्याप्यसक्रामित: सद्योविस्यन्दितः-तत्कालनिष्पादितो विश्रान्त:-उपशान्तकचवरः सल्लकीकर्णिकारपुष्पवर्णाभो वर्णेनोपपेतो गन्धेन रसेन स्पर्शनोपपेत आस्वादनीयो विस्वादनीयो दीपनीयो मदनीयो बृहणीयः सन्द्रियगाप्रहादनीयः, एवमुक्ते गौतम आह-भवे एयारूचे' भवेद् घृतोदस्य समुद्रस्योदकमेतद्रूपं ?, भगवानाह-नायमर्थः समर्थः, घृतोदस्य यस्मात्समुद्रस्योदकम् 'इतः' यथोक्तस्वरूपाद् घृतादिष्टतरमेव यावन्मनआपतरमेवाखादेन प्रज्ञप्तं, कान्तसुकान्तौ च यथाक्रम पूर्वार्द्धपश्चिमा धिपती अत्र घृतोदे समुद्रे महर्द्धिको यावत्पल्योपमस्थितिको परिवसतः, ततो घृतमिवोदकं यस्यासौ घृतोदः, तथा चाह'से एएणद्वेण मित्यादि सुगम, चन्द्रादिसल्यासूत्रमपि सुगमम् ।। 'घतोदण्ण'मित्यादि, घृतोदं पमिति वाक्यालङ्कारे समुद्र मोदवरो| नाम द्वीपो बृत्तो वलयाकारसंस्थानसंस्थितः सर्वत: समन्तात्संपरिक्षिप्य तिष्ठति, चक्रवालविष्कम्भपरिक्षेपद्वारादिवक्तव्यता तथैव यावजीयोपपातसूत्रम् ॥ सम्प्रति नामान्यर्थमभिधित्सुराह-से केणटेण मित्यादि, अथ केनार्थेन भदन्त ! एवमुख्यते श्रोदवरो द्वीपः २१ इति, भगवानाह-गौतम! मोदवरे द्वीपे सत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे 'बहवे खुड्डाखुड्डियाओ वावीओ इत्यादि पूर्ववत्तावद्वक्तव्यं यावद् 'वाणमंतरा देवा देवीओ व आसयंति सयंति जाब विहरंति' नवरं वाप्यादयः क्षोदोदकपरिपूर्णा इति वक्तव्यं, तथा पर्वतका: पर्वतेष्वासनानि गृहकाणि गृहकेष्वासनानि मण्डपका मण्डपकेषु पृथिवीशिलापट्टकाः सर्वासना बर्थमयाः प्रजमाः, सुप्रभमहाप्रभौ च यथाक्रम पूर्वार्धापरार्द्धाधिपती द्वौ देवावत्र क्षोदवर द्वीपे महर्द्धिको यावत्पल्योपमस्थितिको परिवसतः, ततः क्षोदोदकवाप्यादियोगात्मोदवरः स द्वीपः, एतदेवाह-से एएणतुणमित्यादि, चन्द्रादिसूत्रं प्राग्वत् ॥ 'खोयवरणं दीव'मित्यादि। मोदवरं णमिति पूर्ववद् द्वीपं झोदोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थित: सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति । चकवाल
-
2-
जी. ६०
~712~