________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----- ------------ उद्देशक: [(द्वीप-समुद्र)], ----- ------- मूलं [१४७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
न
प्रत
सूत्रांक
[१४७]
दीप अनुक्रम
अनाणीति वा, अभ्राणि-सामान्याकारेण प्रतीतानि, अभ्रवृक्षा इति वा, अभ्रवृक्षा-वृक्षाकारपरिणतान्यभ्राणि, सन्ध्या इति वा सन्ध्याकाले नीलायभ्रपरिणतिरूपा प्रतीतैव, गन्धर्वनगराणि-सुरसदनप्रासादोपशोभितनगराकारतया तथाविधनभःपरिणतपुद्गलराशिरूपाणि, एतान्यपि तत्र स्वरूपतोऽपि न भवन्ति, गजितानीसि वा विद्युत इति वा, गर्जितानि विद्युतश्च प्रवीताः, उल्कापाता इति वा, उल्कापाता-योनि संमूहितचलननिपतनरूपाः, दिग्दाह इति वा, दिग्दाहा-अन्यतरस्यां दिशि छिन्नमूलज्वलनवालाकरालिताम्बरप्रतिभासरूपाः, निर्घाता इति वा, निर्घातो-विद्युत्नपातः, पांशुवृष्टय इति वा, पांमुवृष्टयो-धूलिवर्षाणि, यूपका इति वा, यूपकाः 'संझाछेया
चरणो य' इत्यादिनाऽऽवश्यकपन्न प्रतिपत्तव्याः, वक्षदीप्तकानीसि घा, यक्षदीप्तकानि नाम नभसि रश्यमानाप्रिसहित: पिशाचः | ट्रामिकेति वा रूक्षा प्रविरला धूमाभा धूमिका, महि केनि वा, स्निग्धा घना घनत्वादेव भूमौ पतिता साईतृणादिदर्शनद्वारेणोपलक्ष्य*माणा महिका, रजउद्घाता-रजस्वला दिशः, चन्द्रोपरागा इति चा सूर्योपरागा इति वा, चन्द्रोपराग:-चन्द्रग्रहण सूर्योपराग:-सूर्य
महणं, शह गर्जितविद्युदुल्कादिग्दाहनिर्घातपांशुष्टियूपकयक्षदीमकधूमिकामहिकारजउद्घाता: स्वरूपतोऽपि प्रतिषेध्याः, चन्द्रसूर्यग्रहणे | त्यनापनिपातहेतुतया, स्वरूपतन्तयोः प्रतिपेदुमशक्यवान , जम्बूद्वीपगतौ हि चन्द्रौ सूर्यो वा तत्प्रकाशयतः, एकस्य चन्द्रस्य ग्रहणे | सकलमनुष्यलोकवर्तिनां चन्द्राणामेकस्य सूर्यस्य ग्रहणे सकलमनुष्यलोकवर्तिनां सूर्याणां ग्रहणमत इह क्षेत्र इव तत्रापि स्वरूपतश्चन्द्रसूर्योपरागप्रतिषेधासम्भवः, चन्द्रपरिवेषा इति वा सूर्यपरिवेषा इति वा, चन्द्रसूर्यपरिवेघाश्चन्द्रादित्ययो: परितो वलयाकारपरिणतिसपाः प्रतीता एव, प्रतिचन्द्रा इति वा प्रतिसूर्या इति वा, प्रतिचन्द्र-उत्पातादिसूचको द्वितीयश्चन्द्रः, एवं द्वितीयः सूर्गः प्रतिसूर्यः, इन्द्रधनुरिति वा उदकमत्स्य इति वा, इन्द्रधनु:-प्रतीतं, तस्यैव खण्डमुदकमत्स्यः, कपिहसिवानीति वा, कपिहसितानि-अकस्मान
95
[१८५]]
जी०४८
~ 568~