SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१४७] दीप अनुक्रम [१८५] “जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:) प्रतिपत्तिः [३], उद्देशक: [(द्वीप समुद्र )], मूलं [१४७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः ||| Au यथोक्तप्रमाणोपपत्रत्वेन शोभनजन्मानि यानि सर्वाणि उर: शिरःप्रभृतीन्यङ्गानि तैः सुन्दरम-समयं वपुर्येषां ते सुजातसर्वाङ्गसुन्दराङ्गाः, 'सुपइडियकुम्मचारुचरणा' इति सुष्ठु - शोभनं यथा भवति एवं प्रतिष्ठिताः कूर्म्मवदुन्नतत्वेन चारवञ्चरणाः पादा येषां ते सुप्रतिष्ठित कर्मचारुचरणा: 'रत्तुप्पलपत्तमउयसुकुमालको लतला' इति रकं - लोहितमुत्पलपत्रम् सुदु मार्दवोपेतमकर्कश मिति भावः तचासुकुमारमपि संभवति यथा ष्टष्टपाषाणप्रतिमा तत आह-सुकुमारं - शिरीषकुसुमवदुकठिनं कोमलं मनोक्षं चरणतलं *येषां ते रक्तोत्पलपत्रमृदु सुकुमारकोमलताः तथा 'नगनगर मगरसागर चकंकहरं कलक्खणंकिय चलणा' नगः- पर्वतः नगरमकरसागरचक्राणि - प्रतीतानि अङ्कधरः- चन्द्रमा अङ्कः तस्यैव लाञ्छनं मृगः एवंरूपाणि यानि लक्षणानि तैरङ्कितौ चरणौ येषां ते नगनगरमकर सागर चक्राङ्कधरा लक्षणाङ्कितचरणा:, 'अणुपुञ्चसुसाहयंगुलीया' इति पूर्वस्याः पूर्वस्या अनु लघव इति गम्यते अनुपूर्वाः, किमुक्तं भवति ? - पूर्वस्याः पूर्वस्था उत्तरोत्तरा नवं नखेन हीनाः “नहं नहेण हीणाओ” इति सामुद्रिकशास्त्रवचनात् सुसंहता:-सुशिष्टा अलयो येषां ते अनुपूर्व सुसंहता कुलीकाः, 'उन्नयतणुतंवनिद्धनखा' उन्नता ऊ नतास्तनवस्ताम्रा: 'स्निग्धाः' स्निग्धच्छाया नखाः पादगता इति सामर्थ्यलभ्यं तद्वर्णनाधिकाराद् येषां ते उन्नततनुतान्त्रस्निग्धनखाः, 'संठियसुसिलिङगूढगुल्फा' सम्यक्स्वरूपप्रमाणतया स्थिती संस्थितौ सुष्टि-मांसली गुल्फौ -गुलुको येषां ते संस्थितष्टिगूढगुल्फा:, 'एणी कुरुविंदवत्तवाणुपुब्वजंघा' इति एण्या इव-हरिण्या इव कुरुविन्दस्यैव वर्त्त-सूत्रवलन तस्येव वृत्ते वर्तुळे आनुपूर्व्येण - क्रमेण ऊर्द्ध स्थूरे स्थूरतरे इति गम्यं जते येषां ते एणीकुरुविन्दवर्त्त वृत्तानुपूर्वजाः 'समुग्गनिमग्गगूढजाणू समुद्रकस्येव समुद्रकपक्षिण इव निमझे- अन्तः प्रविष्टे गूढे - मांसलत्वादनुद्धते जानुनी - अष्ठीवन्तौ येषां ते समुद्रनिमन्नगूढजानवः, 'गयससणसुजायसन्निभोरू' गजो इसी श्वसिति - प्राणित्यनेनेति ~542~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy