________________
आगम
(१४)
प्रत
सूत्रांक
[ १४७ ]
दीप
अनुक्रम [१८५]
“जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:)
-
प्रतिपत्तिः [३],
उद्देशक: [(द्वीप समुद्र )],
मूलं [१४७]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः
।। २६५ ।।
श्रीजीवा- तप्रत्ययस्ततः पदद्वयपदद्वयमीलनेन विशेषणसमासः, सुजातपत्रपुष्पफलचोयनिर्याससार बहुद्रव्ययुक्तिसम्भारका सन्धितासवाः, मधुजीवाभि० मेरको मद्यविशेषौ, 'रिष्ठरत्नवर्णाभा' रिष्ठा या शास्त्रान्तरे जम्बूफलकलिकेति प्रसिद्धा, दुग्धजातिः - आस्वादतः क्षीरसदृशी, प्रसन्नामलयगि- ४ सुराविशेषः, नेलकोऽपि सुराविशेषः, शतायुर्नाम या शतवारान् शोधिताऽपि स्वस्वरूपं न जहाति, 'खज्जूरमुद्दियासार' इति अरीयावृत्तिः ॐ त्रापि सारशब्दः प्रत्येकमभिसंबध्यते, खर्जूरसारो मृडीकासारः, तत्र ण (मू) उदलखर्जूरसार निष्पन्न आसव विशेषः खर्जूरसारः, मृद्वीका - द्राक्षा तरसारनिष्पन्न आसवविशेषो मृद्वीकासारः, कापिशायितं मद्यविशेषः, सुपक:- सुपरिपाकागतो यः क्षोदरस इक्षुरसस्त निष्पन्ना १४ वरसुरा सुपकक्षोदरसवरसुरा, कथम्भूता एते मद्यविशेषाः ? इत्याह- 'वन्नगंधरसफासजुत्तबलविरियपरिणामां' वर्णेन सामर्थ्यादतिॐ शायिना एवं गन्धेन रसेन स्पर्शेन च युक्ताः सहिता बलवीर्यपरिणामा-यहेतवो वीर्यपरिणामा येषां ते तथा, किमुक्तं भवति ?परमातिशयसंपन्नैर्वर्णगन्धरसस्पर्शैर्बलहेतुभिर्षीर्यपरिणामै ओपेता इति पुनः किंविशिष्टाः ? इत्याह- 'बहुप्रकारा:' बहवः प्रकारा येषां जातिभेदेन ते बहुप्रकाराः, तथैव मत्ताङ्गका अपि द्रुमगणा मद्यविधिनोपपेता इति योगः, किंविशिष्टेन मद्यविधिना ? इत्यत आह'अणेगबहुविविहवीससापरिणयाए' इति न एकः अनेक:, तत्रानेकः अनेकजातीयोऽपि व्यक्तिभेदाद्भवति तत आह-यहु-प्रभूतं विविधो-जातिभेदान्नानाप्रकारो बहुविविधः प्रभूतजातिभेदतो नानाविध इति भावः स च केनापि निष्पादितोऽपि संभाव्यते तत आह विश्रसया-स्वभावेन तथाविधक्षेत्रादिसामग्रीविशेषजनितेन परिणतो न पुनरीश्वरादिना निष्पादितो विसापरिणतः, ततः पदत्रयस्य पदद्वयपदद्वयमीलनेन कर्म्मधारयः, सूत्रे च स्त्रीत्वनिर्देश: प्राकृतत्वात् ते च मद्यविधिनोपपेता न ताडादिवृक्षा इवाङ्कुरादिषु किन्तु फलेषु तथा चाह - 'फलेहिं पुण्णा वीसंदंति' अन सप्तम्यर्थे तृत्तीया 'व्यत्ययोऽप्यासा' मिति वचनात् फलेषु मद्यविधिभिरिति गम्यते 'पूर्णाः'
Ja Ecoma in
३ प्रतिपत्ती
उत्तरकुरुवर्णनं
उद्देशः २
सू० १४७
अत्र मूल- संपादने शिर्षक-स्थाने एका स्खलना वर्तते द्विप्-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~ 533 ~
।। २६५ ॥