________________
आगम
(१४)
प्रत
सूत्रांक
[१३]
दीप
अनुक्रम
[१४]
प्रतिपत्ति: [१],
मूलं [१३]
मुनि दीपरत्नसागरेण संकलित..... ..आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥ २० ॥
“जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:)
उद्देशक: [-],
Ja Eber
| गप्याहारयन्ति तानि किमादाबाहारयन्ति मध्ये आहारयन्ति पर्यवसाने आहारयन्ति १, अयमत्राभिप्रायः - सूक्ष्मपृथिवीकायिका हानन्तप्रादेशिकानि द्रव्याण्यन्तर्मुहूर्त्तं कालं यावदुपभोगोचितानि गृह्णन्ति, ततः संशयः किमुपभोगोचितस्य कालस्यान्तर्मुहूर्त प्रमाणस्यादीप्रथमसमये आहारयन्ति उत मध्ये-मध्यसमयेषु आहोश्वित् पर्यवसाने पर्यवसानसमये ?, भगवानाह - गौतम! आदावपि मध्येऽपि पर्यवसानेऽप्याहारयन्ति, किमुक्तं भवति ? - उपभोगोचित कालस्यान्तर्मुहूर्त्त प्रमाणस्यादिमध्यावसानसमयेऽप्याहारयन्तीति । यानि भदन्त ! आदावपि मध्येऽपि पर्यवसानेऽप्याहारयन्ति तानि भदन्त ! किं स्वविषयानि - स्वोचिताहारयोग्यान्याहारयन्ति उताविषयानि खोचिता x हारायोग्यान्याहारयन्ति ?, भगवानाह - गौतम! स्वविषयाण्याहारयन्ति नो अविषयाणि । यानि भदन्त ! स्वविषयाण्याहारयन्ति तानि भदन्त ! किमानुपूर्व्याऽऽहारयन्ति अनानुपूर्व्या ?, आनुपूर्वी नाम यथाऽऽसनं तद्विपरीताऽनानुपूर्वी, भगवानाह - गौतम! आनुपूर्व्या, सूत्रे द्वितीया तृतीयार्थे वेदितव्या प्राकृतत्वात् यथाऽऽचाराङ्के "अगणि पुट्ठा" इत्यत्र, आहारयन्ति, नो अनानुपूर्व्या ऊर्ध्वमधस्तिर्यग्या, यथाssसनं नातिक्रम्याहारयन्तीति भावः । यानि भदन्त ! आनुपूर्व्याऽऽहारयन्ति तानि भदन्त ! किं 'तिदिसं ति तिस्रो दिशः समा | हतास्त्रिदिक् तस्मिन् व्यवस्थितान्याहारयन्ति चतुर्दिशि पश्चदिशि दिशि वा, इह लोकनिष्कुटपर्यन्ते जधन्यपदेऽपि [-जीवावगाहक्षेत्रं-] त्रिदिग्व्यवस्थितमेव प्राप्यते न द्विदिग्व्यवस्थितमेकदिग्व्यवस्थितं वा अतस्त्रिदिश्यारभ्य प्रभः कृतः, भगवानाह - गौतम! 'निव्वाघापूर्ण छद्दिसि'मित्यादि, व्याघातो नामालोकाकाशेन प्रतिस्खलनं व्याघातस्याभावो निर्व्यापातं 'शब्दप्रधादावव्ययं पूर्वपदार्थे नित्यमव्ययीभाव' इत्यव्ययीभावः 'तेन वा तृतीयाया' इति विकल्पेनाम्भावविधानात् पक्षेऽत्राम्भावः, नियमाद्- अवश्यतया पदिशि व्यवस्थितानि, पद्भ्यो दिग्भ्य आगवानीति भावः, द्रव्याण्याहारयन्ति, व्याघातं पुनः प्रतीत्य लोकनिष्कुटादौ स्यात्कदाचित्रिदिशि तिसृभ्यो दिग्भ्य
For P&Palle Cinly
~ 43~
१ प्रतिपत्तौ
सूक्ष्मपृ७ थ्वीकायाः सू० १३
॥ २० ॥