________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : 1............................-- उद्देशक: -1, ...........................- मूलं [१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
---
-
-
--
प्रत सूत्रांक [१३]
-
दीप
त्रियाः पुंस्वभिलाष: सीवेदः, पुंसः स्त्रियामभिलाषः पुंवेदः, उभयोरप्यभिलायो नपुंसकवेदः, भगवानाह-गौतम! न स्त्रीवेदका न ४ पुरुषवेदकाः, नपुंसकवेदकाः संमूछिमत्वात् , 'नारकसंमूछिमा नपुंसका' इति भगवचनम् ॥ पर्याप्तिद्वारमाह-"तेसिणं भंते'
इत्यादि, सुगम, पर्याप्तिप्रतिपक्षा अपर्याप्तिस्तनिरूपणार्थमाह-'तेसिणं भंते!' इत्यादि पाठसिद्धं, नवरं चतस्रोऽप्यपर्याप्तयः करणापेक्षया द्रष्टव्याः, लब्ध्यपेक्षया खेकैव प्राणापानापर्याप्तिः, यस्मादेवमागमः-इह लब्ध्यपर्याप्तका अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमासावेव नियन्ते नार्वाक्, यत आगामिभवायुर्वद्धा म्रियन्ते सर्व एव देहिनः, तच्चाहारशरीरेन्द्रियपर्याप्तानामेव बन्धमायातीति ॥ सप्रति दृष्टिद्वारमाह-'ते णं भंते !' इत्यादि सुगम, नवरं सम्यग्-अविपरीवा दृष्टिः-जिनप्रणीतवस्तुतत्त्वप्रतिपत्तिर्येषां ते सम्यग्दृष्टयः, मिध्या-विपर्यस्ता दृष्टियेषां भक्षितहत्पूरपुरुषस्य सिते पीतप्रतिपत्तिवत् मिच्यादृष्टयः, एकान्तसम्यग्रूपमिथ्यारूपप्रतिपत्तिविकला: सम्यग्मिध्यादृष्टयः, निर्वचनसूत्रं-गोयमे त्यादि, सुगर्म, नवरं सम्यग्दृष्टित्वप्रतिषेधः सासादनसम्यक्त्वस्यापि तेषामसम्भवात् , सासा|दनसम्यकलवता तन्मध्ये उत्पादाभावात् , ते यतिसंक्लिष्टपरिणामाः, सास्वादनसम्यक्त्वपरिणामस्तु मनाक् शुभ इति तन्मध्ये सासादनसम्यक्त्ववतामुत्पादाभावः, अत एव सदा संकिष्टपरिणामलातेषां सम्यग्मिथ्यादृष्टित्वपरिणामोऽपि न भवति, नापि सम्यग्मिथ्यादृष्टिः सन् तन्मध्ये उत्पद्यते, "न सम्ममिल्लो कुणइ काले" इति वचनात् ॥ गतं दृष्टिद्वारमधुना दर्शनद्वारमाह-दर्शनं नाम सामान्यविशेषासके वस्तुनि सामान्यावयोधः, तचतुर्धा, तद्यथा-चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं केवलदर्शनं च, तत्र सामान्यविशेषात्मके वस्तुनि चक्षुषा दर्शन-रूपसामान्यपरिच्छेदश्चक्षुर्दर्शनम् , अचक्षुषा-चक्षुर्वर्जशेषेन्द्रियमनोभिर्दर्शनमचक्षुर्दर्शनम् , अवधिरेव दर्शनरूपिसामान्यमणमवधिदर्शनं, केवलमेव दर्शनं-सकलजगद्भाविवस्तुसामान्यपरिच्छित्तिरूपं केवलदर्शनं, तत्र किमेषां दर्शनमिति
अनुक्रम
[१४]
~ 38~