________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], --- ----------- उद्देशक: [(देव०)], -------- ------- मूलं [११४-११७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[११४
-११७]
रूपा इत्यर्थः, 'महिहिया महजुइया महायसा महाबला महाणुभागा महासोक्खा' इति प्राग्वत्, 'हारविराइयवच्छा' इति | हारविराजितं वक्षो येषां ते हारविराजितवक्षसः, 'कडगतुड़ियथंभियभुया' इति कटकानि-कलाचिकाभरणानि त्रुटितानि-वाहुरक्षकास्तैः स्तम्भिताविव स्तम्भिती भुजी येषां ते कटकवुटितस्तम्भितभुजाः, तथाऽङ्गवानि-बाहुशीर्षाभरणविशेषरूपाणि कुण्डले-कर्णाभ-18 रणविशेषरूपे, तथा मृष्टी-गृष्टीकृतौ गण्डौ-कपोलौ यैस्तानि मृष्टगण्डानि कर्णपीठानि-आभरणविशेषरूपाणि धारयन्तीत्येवंशीला अङ्गदकुण्डलमृष्टगण्डकर्णपीठधारिणः, तथा विचित्राणि-नानारूपाणि हस्ताभरणानि येषां ते विचित्रहस्ताभरणा:, तथा 'विचित्तमालामउलिमउडा' इति, विचित्रा माला-कुसुमस्रम् मौलौ-मस्तके मुकुटं च येषां ते विचित्रमालामौलिमुकुटाः, तथा कल्याणक-कल्याणकारि प्रवरं वस्त्रं परिहितं वैसे कल्याणकपत्रपरिहिताः, सुखादिदर्शनानिष्ठान्तस्यात्र पाक्षिकः परनिपातः, तथा कल्याणकं-कल्याणकारि यत् प्रवरं माल्यं-पुष्पदाम यथानुलेपनं तद्धरन्तीति कल्याणकप्रवरमाल्यानुलेपनधराः, तथा भाखरा-देदीप्यमाना बोन्दिःशरीरं येषां ते भास्वरवोन्दयः, तथा प्रलम्बत इति प्रलम्या या वनमाला तां धरन्तीति प्रलम्बवनमालाधराः, दिव्येन 'वर्णेन' कृष्णादिना 'दिव्येन गन्धेन' सुरभिणा 'दिव्येन स्पर्शन' मृदुस्निग्धादिरूपेण दिव्येन शक्तिविशेषमपेक्ष्य संहननेनेव संहननेन न तु सामात्संहननेन, देवानां संहननासम्भवात् , संहननं हि अस्थिरचनासके, न च देवानामस्थीनि सन्ति, तथा चोक्तं प्रागेव-देवा असंययणी तेसि नेव सिरा" इत्यादि, 'दिव्येन संस्थानेन' समचतुरस्ररूपेण भवधारणीयशरीरस्य, तेपामन्यसंस्थानासम्भवात् , 'दिव्यथा ऋद्ध्या' परिवारादिकया 'दिव्यया युत्या' इष्टार्थसंप्रयोगलक्षणया, 'धु अभिगमने' इतिवचनात् 'दिव्यया प्रभया' भवनावासगतया 'दिव्यया छायया' समुदायशोभया 'दिव्येनार्चिषा' स्वशरीरगतरत्रादितेजोज्वालया 'दिव्येन तेजसा' शरीरप्रभवेन 'दिव्यया
दीप अनुक्रम [१५२-१५५]]
SASRAEONE
1
~326~