________________
आगम
(१४)
प्रत
सूत्रांक
[९]
दीप
अनुक्रम [१०५ ]
श्रीजीवाजीवाभि०
मलयगियावृत्तिः
॥ १२२ ॥
“जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:)
प्रतिपत्ति: [३],
उद्देशकः [(नैरयिक)-२],
मूलं [८९]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
सू० ८९
वा अविश्वस्तं वा पुनरपि प्रत्युद्धर्तुम्, एवंरूपा नाम तत्रोष्णवेदना || अस्यैवार्थस्य स्पष्टतरभावनार्थ दृष्टान्तान्तरमाह - 'से जहा- प्रतिपत्तौ नामए' इत्यादि, 'से' सकलजनप्रसिद्धो यथेति दृष्टान्तत्वोपदर्शने वाशब्दो विकल्पने, अयं वा दृष्टान्तो विवक्षितार्थप्रतिपत्तये बोद्धव्य २ उद्देशः २ इति विकल्पनभावना, 'मन्तः' मदकलितः 'मातङ्गः' हस्ती, वह मातङ्गोऽन्यजोऽपि संभवति ततस्तदाशङ्काय्युदासार्थं नानादेशजविनेय-नारा जनानुग्रहाय (वा) पर्यायद्वयमाह - द्विपः' द्वाभ्यां मुखेन करेण चेयर्थः पिवतीति द्विपः, 'मूलविभुजादय' इति कप्रत्ययः, कौशीतोष्णजीर्यतीति कुञ्जरः यदिवा कुखे वनगहने रमति रतिनायनातीति कुञ्जरः 'कचिदिति उप्रत्ययः पष्टियनाः संवत्सरा यस्य स ॐ वेदनाः | पष्टिहायन: 'प्रथमशरत्कालसमये' कार्त्तिकमाससमये, इह प्राय ऋतवः सूर्यर्त्तवो गृह्यन्ते ते चापाडादयो द्विद्विमासप्रमाणाः प्रवचने # चक्रमेणैवनामानः, तद्यथा-प्रथमः प्रावृट् द्वितीयो वर्षारात्रः तृतीयः शरत् चतुर्थी हेमन्तः पञ्चमो वसन्तः पटो ग्रीष्मः तथा चाह पादलिप्तसूरिः- "पाउस वासारतो, सरओ हेमंत बसन्त गिम्हो य एष खलु छप्पि रिऊ, जिणवरदिट्ठा नए सिट्टा ||१|| " ततः प्रथमशरत्कालसमयः कार्त्तिकसमय इति विवृत्तम् आह च मूलटीकाकृत् -"प्रथमशरत्- कार्तिकमासः " तस्मिन् वाशब्दो वि कल्पने 'चरमनिदाघकालसमये वा' चरम निदाघकालसमयो - ज्येष्ठमासपर्यन्तस्तस्मिन् वाशब्दो विकल्पने, 'उष्णाभिहतः' सूर्यखरकिरणप्रतापाभिभूतः, अत एवोणैः सूर्यकिरणैः सर्वतः प्रतप्राङ्गतया शोषभावतस्तृपाभिहतः, तत्रापि पानीयगवेषणार्थमितस्ततः स्वेच्छया परिभ्रमतः कथचिद्दवाभिप्रत्यासत्तौ गमनतो वाज्यिालाभिहतः अत एव 'आतुर' कचिदपि स्वास्थ्यमलभमानः सन् आकुल:, सर्वाङ्गपरितापसम्भवेन गढतालुशोपभावान् शुषितः कचित् 'झिजिए' इति पाठस्तत्र 'क्षितः' क्षीणशरीर इति व्याख्येयम् असाधारण वेदनासमुच्छलनात्पिपासितः अत एव दुर्बलः शारीरमानसावष्टम्भरहितत्वान्, 'कान्तः' ग्लानिमुपगतः
For P&Praise Cinly
~ 247~
॥ १२२ ॥