________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------- उद्देशक: (नैरयिक)-२], --- -------- मूलं [८४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [८४]
दीप अनुक्रम
कारे, 'महर्द्धिकः' महती ऋद्धिर्विमानपरिवारादिका यस्य स महर्द्धिकः, महती युतिः शरीराभरणविषया यस्य स महायुतिकः, महद् | बलं-शारीरः प्राणो यस्य स महाबलः, महद् यशः-ख्यातिर्यस्य स महायशाः, तथा 'महेसक्खें' इति महेश इति महान ईश्वर इयाख्या यस्य स महेशाख्यः, अथवा ईशनमीशो भावे घप्रत्यय ऐश्वर्यमित्यर्थः, 'ईशं ऐश्वर्य' इति वचनात् , तत ईशम्-ऐश्वर्यमात्मनः | | ख्याति--अन्तर्भूतण्यर्थतया ख्यापयति-प्रथयति ईशाख्यः, महांश्चासावीशाख्यश्च महेशाख्यः, कचित् 'महासोक्खे' इति पाठः, तत्र महत् सौख्यं यस प्रभूतसदोदयवशात्स महासौख्यः, अन्ये पठन्ति-'महासक्खे' इति तत्राय शब्दसंस्कारो-महाश्वाक्षः, इयं चात्र पूर्वाचार्यप्रदर्शिता व्युत्पत्ति:-आशुगमनादश्वो-मन: अक्षाणि-इन्द्रियाणि स्वविषयव्यापकत्वात् अश्वश्चाक्षाणि च अश्वाभाणि महान्ति अश्वाक्षाणि यस्यासौ महावाक्षः, तथा 'महाणुभागे' इति अनुभागो-विशिष्टवैक्रियादिकरणविषयाऽचिन्त्या शक्ति: 'भागोऽचिंता सत्ती इति वचनान् , महान अनुभागो यस्य स महानुभागः, अमूनि महर्द्धिक इत्यादीनि विशेषणानि तत्सामातिशवप्रतिपादकानि यावदिति चप्पुटिकात्रयकरणकालावधिप्रदर्शनपरम, 'इणामेव इणामेवेतिकट्ट' एवमेव मुधिकया एवमेव 'मोरकुला मुहा य मुहियत्ति नायव्वा' इति वचनाद् अवज्ञयेति भावः, उक्त च मूलटीकायाम् "इशामेव इणामेवेति कट्ट एवमेव मुधिकयाऽत्रज्ञयेति" 'इतिकृत्वे'लि हस्तदर्शितचप्पुटिकानयकरणमूचकं केवलकल्प-परिपूर्ण जम्बूद्वीपं त्रिभिरप्सरोनिपातः, अप्सरोनिपातो नाम |
चप्पुटिका, तत्र तिमभिचप्पुटिकाभिरिति द्रष्टव्यं, चप्पुटिकाच कालोपलक्षणं, ततो यावता कालेन तिम्रश्चप्पुटिका: पूर्यन्ते तावपात्कालमध्य इत्यर्थः, त्रिसप्तकृत्यः-एकविंशतिवारान अनुपरिवर्त्य-सामस्त्येन परिभ्रम्य 'हव्व' शीघमागच्छेन् , स इत्यम्भूतगमन
शक्तियोग्यो देवः तया देवजनप्रसिद्ध्या उत्कृष्टया प्रशस्त विहायोगतिनामोदयात्प्रशस्तया शीघसंचरणात्वरितया लरा संजाताऽस्यामिति जी०च०१९/
[९८]
~220~