________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:)
प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
+
*
तथाऽभिधानता युज्यते, नान्यथा, एकान्तकस्वभावतायां तेषां वैचित्र्यायोगतस्तथा तथाऽभिधानप्रवृत्तेरसम्भवात् , एवं सति "अष्टविकल्पं देवं तिर्यग्योनं च पञ्चधा भवति । मानुष्यं चैकविधं समासतो भौतिकः सर्गः ॥ १ ॥” इति वामात्रमेव, अधिष्ठातृजीवानामेकरूपत्वाभ्युपगमेन तथारूपवैचित्र्यासम्भवादिति, एवमन्येऽपि प्रवादास्तथा तथा वस्तुवैचित्र्यप्रतिपादनपरा निरस्ता द्रष्टव्याः, सर्वथैकस्वभावत्वाभ्युपगतौ वैचित्र्यायोगात् ।। सम्प्रत्येता एवं प्रतिपत्तीः क्रमेण व्याचिख्यासुः प्रथमत आद्यां प्रतिपत्ति विभावयिषुरिदमाह
तत्थ(ण) जे एवमाहंसु 'दुविहा संसारसमावण्णगा जीवा पं० ते एवमाहंसु-तं०-तसा चेव
थावरा चेव ।। (सू०९) I 'तत्र' तेषु नवसु प्रतिपत्तिषु मध्ये ये द्विश्त्यवतारविवक्षायां वर्तमाना एवं व्याख्यातवन्त:-द्विविधाः संसारसमापनका जीवाः प्रज्ञप्ता इति ते 'णम्' इति वाक्यालकारे 'एवं' वक्ष्यमाणरीत्या द्विविधत्वभावनार्थमाख्यातवन्तः, 'तद्यथे त्युपन्यस्तद्वैविध्योपदर्शनार्थः, त्रसाश्चैव स्थावराश्चैव, तत्र त्रसन्ति-उष्णायभितप्ताः सन्तो विवक्षितस्थानादुद्विजन्ति गच्छन्ति च छायाद्यासेवनार्थ स्थानान्तरमिति प्रसाः, अनया च व्युत्पत्त्या प्रसासनामकर्मोदयवर्तिन एवं परिगृह्यन्ते, न शेषाः, अथ शेषैरपीह प्रयोजनं, तेषामप्यमे वक्ष्यमाणत्वात् , तत
एवं व्युत्पत्ति:-वसन्ति-अभिसन्धिपूर्वकमनभिसन्धिपूर्वकं वा ऊर्द्धमधस्तिर्यक् चलन्तीति त्रसा:-तेजोवायबो द्वीन्द्रियादयश्च, उष्णासद्यभितापेऽपि तत्स्थानपरिहारासमर्थाः सन्तस्तिष्ठन्तीत्येवंशीलाः स्थावरा:-पृथिव्यादयः, चशब्दो स्वगतानेकभेदसमुण्यार्थों, एवकारानववधारणार्थी, अत एव संसारसमापनका जीवाः, एतव्यतिरेकेण संसारिणामभावात् ॥ तत्राल्पवक्तव्यत्वात्प्रथमतः स्थावरानभिधित्सु
स्तत्प्रभसूत्रमाह
दीप
अनुक्रम
१-५५
जीवानाम् द्विविध-भेदा:
~ 20~