________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [१], ------------------------- उद्देशक: [-], -------------------- मूलं [८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
जीवाजीवाभि० प्रतिपत्तिः
सूत्रांक
N-Dik
दीप
एवमाहिति, तं०-एगे एबमाहंसु-दुविहा संसारसमावषणगा जीवा पं०, एगे एवमाहंसु-तिथिहा संसारसमावण्णगा जीवा पं०, एगे एवमाहंसु-चउबिहा संसारसमावण्णगा जीवा पं०, एगे एवमाहंसु-पंचविहा संसारसमावण्णगा जीवा पं०, एतेणं अभिलावेणं जाव दसविहा संसार
समावण्णगा जीवा पण्णत्ता (सू०८) सूरिराह-संसारसमापनेषु णमिति वाक्यालङ्कारे जीवेषु 'इमाः' वक्ष्यमाणलक्षणा 'नव प्रतिपत्तयो' द्विपत्यवतारमादौ कला | दशप्रत्यवतारं यावद् ये नव प्रत्यवतारास्तद्रूपाणि प्रतिपादनानि संवित्तय इतियावत् 'एवं' वक्ष्यमाणया रीत्याऽऽख्यायन्ते पूर्वसूरिभिः इह प्रतिपत्त्याख्यानेन प्रणालिकयाऽर्थाख्यानं द्रष्टव्यं, प्रतिपत्तिभावेऽपि शब्दादर्थे प्रवृत्तिकरणात् , तेन यदुरूयते शब्दाद्वैतवादिभिः'शब्दमात्रं विश्व'मिति, तदपास्तं द्रष्टव्यं, तदपासने चेयमुपपत्ति:-एकान्तैकस्वरूपे वस्तुन्यभिधानद्वयासम्भवात् भिन्नप्रवृत्तिनिमित्ताभावात् , ततश्च शब्दमानमित्येव स्वात् न विश्वमिति, प्रणालिकयाऽर्थाभिधानमेवोपदर्शयति, तद्यथा-एके आचार्या एवमाख्यातवन्त:द्विविधाः संसारसमापन्ना जीवाः प्रशताः, एके आचार्या एवमाण्यातवन्त:-त्रिविधाः संसारसमापन्ना जीवाः, एवं यावदशविधा इति, इह एके इति न पृथग्मतावलम्बिनो दर्शनान्तरीया इव केचिदन्ये आचार्याः, किन्तु य एवं पूर्व द्विप्रत्यवतारविवक्षायां वर्तमाना एवमुक्तवन्तः यथा द्विविधाः संसारसमापन्ना जीवा इति त एव त्रिप्रत्यवतारविवक्षायां वर्तमानाः, द्विपत्यवतारविवक्षामपेक्ष्य त्रिप्रत्यवतारविवक्षाया अन्यत्वात् , विषक्षावतां तु कथञ्चिद् भेदादन्य इति वेदितथ्याः, अत एव प्रतिपत्तय इति परमार्थतोऽनुयोगद्वाराणीति प्रतिपत्तव्यम्, इह य एव द्विविधास्त एव त्रिविधास्त एव चतुर्विधा याबद्दशविधा इति तेषामनेकस्वभावतायां तत्तद्धर्मभेदेन तथा
अनुक्रम
27
~ 19~