SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [३-५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३-५] जीवाभि० रीयावृत्तिः अजीवाभिगमः सू. ३-४५ मलयनि दीप अनुक्रम [३-५] श्रीजीवा- निर्विभागो भागोऽद्धासमयः, अयं चैक एव वर्तमानः परमार्थतः सन् नातीतानागताः, तेषां यथाक्रमं विनष्टानुत्पन्नत्वात् , ततः काय- लाभावाद्देशप्रदेशकल्पनाविरहः, अथाकाशकाली लोकेऽपि प्रतीताविति तौ श्रद्धातुं शक्येते, धर्माधर्मास्तिकायौ तु कथं प्रत्येतव्यौ ? | येन तद्विषया श्रद्धा भवेत् , उच्यते, गतिस्थितिकार्यदर्शनात्, तथाहि-यद् यदन्वयव्यतिरेकानुविधायि तत्तवेतुकमिति व्यवहर्त्तव्यं, यथा चलरिन्द्रियान्वयव्यतिरेकान विधायि चाक्षुषं विज्ञानं, तथा च जीवानां पुद्गलानां च गतिस्थितिपरिणामपरिणतानामपि गतिस्थिती यथाक्रमं धर्माधर्मास्तिकायान्वयव्यतिरेकानुविधायिन्यौ, तस्मात्ते तद्धेतुके, न चायमसिद्धो हेतुः, तथाहि-जीवानां पुगलानां च गतिस्थितिपरिणामपरिणतानामपि गति स्थिती न तत्परिणमनमानहेतुके, तन्मात्रहेतुकतायामलोकेऽपि तत्प्रसक्तेः, अथ न तत्परिणमनमात्रं हेतुः किन्तु विशिष्टः परिणामः, स चेत्थंभूतो यथा लोकमात्रक्षेत्रस्यान्तरेऽत्र गतिस्थितिभ्यां भवितव्यं न बहिः प्रदेशमात्रमध्यधिक, ननु स एवेत्थम्भूतो विशिष्टपरिणाम आकालं जीवानां पुद्गलानां चोत्कर्षतोऽप्येत्तावत्प्रमाण एवाभूद् भवति भविष्यति वा न तु कदा18 चनाप्यधिकतर इत्यत्र किं नियामक ?, यथा हि किल परमाणोर्जघन्यत: परमाणुमात्रक्षेत्रातिक्रममादिं कृत्वोत्कर्षतचतुर्दशरज्वामकमपि क्षेत्रं यावद् गतिरुपजायते तथा परतोऽपि प्रदेशमात्रमप्यधिका किं न भवति ?, तस्मादवश्यमत्र किश्चिन्नियामकमपरं वक्तव्यं, तच धर्माधर्मास्तिकायावेव नाकाशमात्रम् , आकाशमात्रस्थालोकेऽपि सम्भवात् , नापि लोकपरिमितमाकाशम् , इतरेतराश्रयदोषप्रसङ्गात् , तथाहि-जीवानां पुद्गलानां चान्यत्र गतिथियोरभावे सिद्धे सति विवक्षितस्य परिमितस्याकाशस्य लोकलसिद्धिः, तत्सिद्धौ चान्यत्र जीवपुद्गलानां गतिस्थित्यभावसिद्धिरित्येकाभावेऽन्यतरस्याप्यभावः, अथ किमिदमसंबद्धमुच्यते?, यत् लोकलेन सम्प्रति व्यवड़ियते क्षेत्रं, तावन्मात्रस्यैवाकाशखण्डस्य गतिस्थित्युपष्टम्भकस्वभावो न परस्य प्रदेशमात्रस्यापि ततो न कश्चिद्दोषः, ननु तावन्मात्रस्यैवाकाशस्य NSGRRESCREGACSCORESEX F%95 अजीवाभिगमस्य प्ररुपणा ~ 15~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy