________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : १. ...........................-- उद्देशक: -1, ....................-- मूलं [३-५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३-५]
वक्तव्यं तावद् यावत् 'सेत्तं असंसारसमापन्नजीवाभिगमे' इति, तश्चैवम्-'धम्मस्थिकाए धम्मस्थिकायस्स देसे धम्मस्थिकायस्स पएसा अधम्मस्थिकाए अधम्मस्थिकायस्स देसे अधम्मत्विकायस्स पएसा आगासस्थिकाए आगासत्थिकायस्स देसे आगासस्थिकायस्स | पएसा अद्धासमये" इति, तत्र जीवानां पुद्गलानां च स्वभावत एव गतिपरिणामपरिणतानां तत्स्वभावधारणापोषणाद्धर्मः अस्तय:-प्रदेशा| स्तेषां काय:-सङ्घात: "गण काए य निकाए खंधे बग्गे तहेव रासी य" इति वचनात् अस्तिकाय:-प्रदेशसक्षात इत्यर्थः, धर्मश्चा-1 सावस्तिकायश्च धर्मास्तिकाय:, अनेन सकलधर्मास्तिकायरूपमवयविद्रव्यमाह, अवययी च नाम अवयवानां तथारूप: ससातपरिणामविशेष एव, न पुनरवयवद्रव्येभ्यः पृथगर्थान्तरद्रव्यं, तस्यानुपलम्भात् , तन्तव एव हि आतानवितानरूपसङ्घातपरिणामविशेषमापन्ना | लोके पटव्यपदेशभाज उपलभ्यन्ते, न तदतिरिक्तं पटाख्यं नाम द्रव्यम् , उक्तं चान्यैरपि-"तन्त्यादिव्यतिरेकेण, न पटायुपलम्भनम् । तन्त्वादयोऽविशिष्टा हि, पटादिव्यपदेशिनः ॥ १॥" कृतं प्रसङ्गेन, अन्यत्र धर्मसमहणिटीकादावेतद्वादस्य चर्षितत्वात् , तथा तस्यैव बुद्धिपरिकल्पितो व्यादिप्रदेशासको विभागो धर्मास्तिकायस्य देशः, धर्मास्तिकायस्य प्रदेशा:-प्रकृष्टा देशाः प्रदेशाः, प्रदेशा | निर्विभागा भागा इति, ते चासयेयाः, लोकाकाशप्रदेशप्रमाणत्वात्तेषाम् , अत एव बहुवचनं, धर्मास्तिकायप्रतिपक्षभूतोऽधर्मास्तिकाय:, किमुक्तं भवति ?-जीवानां पुद्गलानां च स्थितिपरिणामपरिणतानां तत्परिणामोपटुम्भकोऽमूत्तोंऽसङ्ख्यातप्रदेशामकोऽधर्मास्तिकाय:, अधमास्तिकायस्य देश इत्यादि पूर्ववत्, तथा आ-समन्तात्सर्वाण्यपि द्रव्याणि काशन्ते-दीप्यन्तेऽत्र व्यवस्थितानीत्याकाशम्, अस्तयःप्रदेशास्तेषां कायोऽस्तिकायः, आकाशं च तदस्तिकायश्चाकाशास्तिकायः, आकाशास्तिकायस्य देश इत्यादि प्राग्वत् , नवरमस्य प्रदेशा | अनन्ताः, अलोकसानन्तत्वात, 'अदासमय' इति, अद्धति कालस्याख्या, अद्धा चासौ समयश्चाद्धासमयः, अथवाऽद्धायाः समयो
AARAGAR.
54
दीप अनुक्रम [३-५]
अजीवाभिगमस्य प्ररुपणा
~ 14~