________________
आगम
(१३)
प्रत
सूत्रांक
[१५]
दीप
अनुक्रम
[१५]
“राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः)
मूलं [... १५]
आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि प्रणीत वृत्तिः
मुनि दीपरत्नसागरेण संकलित..
इ वा ' इति दृश्यते तत्रेन्द्रनीलमहानीलमरकता रत्नविशेषाः प्रतीताः, अञ्जनकेशिका - वनस्पतिविशेषस्तस्य कुसुममञ्जनकेसिकाकुसुमं, नीलोत्पलं कुवलयं, नीलाशोककणवीर नीलबन्धुजीवा अशोकादिवृक्षविशेषाः भवेयारूवे इत्यादि माम्पद् व्याख्येयं । तथा ' तत्थ णमित्यादि, ' तत्र तेषां मणीनां मध्ये ये ते लोहिता मणयस्तेषामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा' से जहानामए' इत्यादि, तद्यथा नाम शशकरुधिरं उरभ्रः ऊरणस्तस्य रुधिरं वराहः- शूकरस्तस्य रुधिरं मनुष्यरुधिरं महिषरुधिरं च प्रतीतं, एतानि हि किल शेषरुधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तत एतेषामुपादानं, वालेन्द्रगोपकः सद्योजातेन्द्रगोपकः स हि प्रवृद्धः सन्नीपत्पाण्डुरो रक्तो भवति ततो वालग्रहणं, इन्द्रगोपकः- प्रथमप्राकालभावी कीटविशेषः, बालदिवाकरः- प्रथममुद्गच्छन् सूर्यः, ॐ सन्ध्याभ्ररागो - वर्षासु सन्ध्यासमयभावी अभ्ररागः, गुञ्जा-लोकमतीता तस्यार्द्धं रागो गुजार्द्धरामः, गुञ्जाया हि अर्द्धमतिरक्तं भवति अर्द्ध चातिकृष्णमिति गुजार्द्धग्रहणं, जपाकुसुमकिंमुककुसुमपारिजातकुसुमजात्यहिला लोकप्रसिद्धाः, शिलामवालं - प्रवालनामा ॐ रत्नविशेष: प्रवालाङ्कुरः- तस्यैव रत्नविशेषस्य प्रवालस्याङ्कुरः, स हि तत्प्रथमोद्गतत्वेनात्यन्तरक्तो भवति ततस्तदुपादानं, लोहिताक्षमणिर्नाम रत्नविशेषः, लाक्षारसकुमिरागरक्तकम्बलचीनपिष्टराशिरक्तोत्पलरक्ताशोककणवीररक्तबन्धुजीवाः प्रतीताः, 'भवेयारूवे ' इत्यादि प्राम्वत् । 'तत्थ णमित्यादि, 'तत्र' तेषां मणीनां मध्ये ये हरिद्रा मणयस्तेषामेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा'से जहानामए' इत्यादि, स यथानाम चम्पकः सामान्यतः सुवर्णचम्पको वृक्षः, चम्पकच्छली- सुवर्णचम्पकत्वक, चम्पकभेद:सुवर्णचम्पकच्छेदः, हरिद्रा प्रतीता, हरिद्राभेदो-हरिद्राच्छेदः, हरिद्रागुटिका-हरिद्रासारनिर्वर्तिता गुटिका, हरितालिका- पृथिवीविकार| रूपा प्रतीता हरितालिकाभेदो-हरितालिकाच्छेदः, हरितालिकागुटिका - हरितालिकासारनिर्वर्तिता गुलिका, चिकुरो - रागद्रव्यविशेषः,
सूर्याभदेवस्य दिव्ययान करणं
For Parts Only
~68~
norary.org