________________
आगम
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
(१३)
------------ मूलं [१२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[१२]
दीप अनुक्रम [१२]
तदपाकृतमवसेयं, सर्वत्र दिव्यानुभावतः तयारूपप्रतिशब्दोच्छलने यथोक्तदोषासम्भवात् । 'तए णमित्यादि, ततो 'णमिति पूर्ववत् तेषां सूर्याभदेवविमानवासिनो बहूनां वैमानिकदेवानां देवीनां च एकान्तेन सर्वात्मना रतौ-रमणे प्रसक्ता एकान्तरतिप्रमक्ता अत एव ।। नित्यं सर्वकालं प्रमत्ता नित्यप्रमत्ताः, कस्मादिति चेदत आह-'बिसयमुहमुच्छियात्ति' विषयसुखेषु मूञ्छिता-अध्युपपन्ना विषयसुखमू-- ञ्छिता अध्युपपन्नास्ततो नित्यप्रमत्ताः, ततः पदत्रयस्य पदद्वयमीलनेन विशेषणसमासः, तेषां 'सुसरघंटारवविउलबोलतुरियचचलपडिवोहणे' इति सुस्वराभिधानाया घण्टाया रवस्य यः सर्वासु दिक्षु विदिक्षु च प्रतिशब्दोच्छलनेन विपुलः-सकलविमानव्यापितया विस्तीणों बोल:-कोलाहलस्तन त्वरितं-शीघ्रं चपलं-आकुलं प्रतिबोधने कृते सति 'घोसणकोउहलादिन्नकन एगग्गचितउवउत्तमाणसाणमिति ' कीडग् नाम घोषणं भविष्यतीत्येवं घोषणे कुतूहलेन दत्ती कणों यैस्ते घोषणकुतूहलदत्तकाः , तथा एकाग्रं-घोषणाश्रवणकविषयं चित्तं येषां ते एकाग्रचित्ताः, एकाग्रचित्तत्वेऽपि कदाचिदनुपयोगः स्यादत आह उपयुक्तमानसाः, ततः पूर्वपदेन विशेषणसमासस्तेपा, पदात्यनीकाधिपतिर्देवस्तस्मिन् घण्टारवे 'निसंतपसंतसीति नितरां शान्तो निशान्तः अत्यन्तमन्दीभूतस्ततः प्रकर्षण सर्वात्मना शान्तः प्रशान्तः, ततश्छिन्नमरूद इत्यादाविच विशेषणसमासस्तस्मिन् महता २ शब्देन उद्घोषयन्नेवमवादीत् 'हन्त मुणंतु ' इत्यादि, हन्तेति हर्षे, उक्तं च-'हन्त हर्षेऽनुकम्पायामित्यादि, हर्षश्च स्वामिनाऽऽदिष्टत्वात् श्रीमन्महावीरपादवन्दनार्थं च प्रस्थानसमारम्भात् , शृण्वन्तु भवन्तो बहवः सूर्याभविमानवासिनो वैमानिकदेवा देव्यच, सूर्याभविमानपतेर्वचनं हितसुखार्थ हितार्थं सुखार्थं चेत्यर्थः, तत्र हितं जन्मान्तरेऽपि कल्याणाबई तथाविधकुशलं, सुखं तस्मिन् भवे निरुपद्रवता, आज्ञापयति भो देवानां प्रियाः सूर्याभी देवो यथा गच्छति भोः ! सूर्याभो देवो! 'जम्बूद्वीपं द्वीपमित्यादि तदेव यावदन्तिके प्रादुर्भवत ॥
REmainalina
murary on
| भगवन्त महावीरस्य वन्दनार्थे गमनाय उद्घोषणा
~ 54~