________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
----------- मूलं [८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्राक
दीप अनुक्रम
अत एवाह-मस्तके कृत्वा विनयेन वचनं सूर्याभस्य देवस्य प्रतिशृण्वन्ति-अभ्युपगच्छन्ति, कथम्भूतेन विनयेनेत्याह-एवं देवो तहत्ति आणाए' इति हे देव ! 'एवं' यथैव यूयमादिशत तथैवाज्ञया भवदादेशेन कुर्म इत्येवंरूपेण, देवो इत्यत्रौकार आमत्रणे प्राकृतलक्षणवशात् , यथा 'अज्जो' इत्यत्र, प्रतिश्रुत्य वचनं 'उत्तरपुरच्छिम उत्तरपूर्व दिग्भागं, ईशानकोणमित्यर्थः, तस्या
त्यन्तप्रशस्तत्वात् , अपकामन्ति गच्छन्ति, अपक्रम्य च वैक्रियसमुद्घातेन-वैक्रियकरणाय प्रयत्नविशेषेण समोहनन्ति समबहकान्यन्ते समवहता भवन्तीत्यर्थः, समवहताथात्मपदेशान् दूरतो विक्षिपन्ति, तथा चाह-'संखेजाणि जोयणाणि दंडं निस्सरन्ति' दण्ड अइव दण्ड:-ऊधि आयतः शरीरवाहल्यो जीवप्रदेशसमूहस्तं शरीरादहिः सख्येयानि योजनानि यावन्निसृजन्ति-निष्काशयन्ति, | निसृज्य तथाविधान् पुद्गलानाददते, एतदेव दर्शयति, तद्यथा-रत्नानां कर्केतनादीनां १ बत्राणां २ बर्याणां ३ लोहिताक्षाणां ४ मसारगल्लाणं ५ हंसगर्भाणां ६ पुद्गलानां ७ सुगन्धिकानां ८ ज्योतीरसानां ९ अञ्जनपुलकानां १० अञ्जनानां ११ रजतानां १२ जातरूपाणां १३ अडुनना १४ स्फटिकानां १५ रिष्टानां १६ योग्यान् यथावादरान्-असारान् पुद्गलान् परिशातयन्ति यथामूक्ष्मान -सारान् पुद्गलान् पर्याददते पर्यादाय चिकीर्पितरूपनिर्माणार्थं द्वितीयमपि वारं वैक्रियसमुद्घातेन समवहन्यन्ते, समवहत्य च यथोक्तानां रत्नादीनामयोग्यान् यथावादरान पुगलान परिभातयन्ति यथामूक्ष्मानाददते आदाय च ईप्सितानि उत्तरवैक्रियाणि विकुर्वन्ति, ननु । रत्नादीनां पायोग्याः पुद्गला औदारिका उत्तरवैक्रियरूपयोग्याश्च पुद्गला ग्राह्या वैक्रियास्ततः कथमेवं युक्तमिति ?, उच्यते, इह रत्नादिग्रहणं सारतामात्रप्रतिपादनार्थ, ततो रत्नादीनामिवेति द्रष्टव्यमिति न कश्चिदोषः, अथवा औदारिका अपि तैः गृहीताः सन्तो बक्रियतया परिणमन्ते, पुद्गलानां तत्तत्सामग्रीवशात् (तथा) तथापरिणमनस्वभावत्वादतोऽपि न कश्चिदोपः, तत एवमुसरक्रियाणि
NEasaram.org
भगवन्त महावीरस्य वन्दनार्थे सूर्याभदेवस्य आभियोगिक-देवानाम् आगमनं
~ 42 ~