________________
आगम
(१३)
प्रत
सूत्रांक
[४]
दीप
अनुक्रम
[४]
“राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः )
मूलं [४] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१३] उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
Jan Eucator
तत्र संस्कारवत्वं संस्कृतादिलक्षणयुक्तत्वं, उदात्तत्वं उच्चैर्वृत्तिता उपचारोपेतत्वम्-अग्राम्यता, गम्भीरशब्दत्वं मेघस्येव, अनुनादिता प्रतिरवोपेतत्वं दक्षिणत्वं सरलता, उपनीतरागत्वं उत्पादिता श्रोतृजने स्वविषयवहुमानता, एते सप्त शब्दापेक्षा अतिशयाः, अत ॐ ऊर्द्ध त्वर्थाश्रयाः, तत्र महार्थत्वं परिपुष्टार्थाभिधायिता, अव्याहतपौर्वापर्यत्वं पूर्वापरवाक्याविरोधः शिष्टत्वं वक्तुः शिष्टत्वसूचनात् असन्दिग्धत्वं परिस्फुटार्थप्रतिपादनात् अपद्रुतान्योचरत्वं-परदूषणाविषयता, हृदयग्राहित्वं- दुर्गमस्याप्यर्थस्य परहृदये मवेशकरणं, देशकालाव्यतीतत्वं प्रस्तावोचितता, तत्त्वानुरूपत्वं विवक्षितवस्तुस्वरूपानुसारिता, अप्रकीर्णमसृतत्वं सम्बन्धाधिकारपरिमितता, अन्योऽन्यमगृहीतत्वं पदानां वाक्यानां वा परस्परसापेक्षता, अभिजातत्वं यथाविवक्षितार्थाभिधानशीलता, अतिस्निग्धमधुरत्वं वुश्चक्षितस्य घृतगुडादिवत्परमसुखकारिता, अपरममैवेधित्वं परममनुङ्घट्टनशीलता, अर्थधर्माभ्यासानपेतत्वं- अर्थधर्म्मप्रतिबद्धता, उदारत्वं अतिविशिष्टगुम्फगुणयुक्तता अतुच्छार्थप्रतिपादकता वा, परनिन्दात्मोत्कर्षविप्रयुक्तत्वं प्रतीतं, उपगतश्लाघत्वंउक्तगुणयोगतः प्राप्तश्लाघता, अनुपनीतत्वं- कारककालवचनलिङ्गादिव्यत्ययरूपवचनदोषापेतता, उत्पादिताविच्छिन्नकुतूहलत्वंश्रोतॄणां स्वविषये उत्पादितं जनितमविच्छिन्नं कौतूहलं कौतुकं येन तस्या तद्भावस्तत्त्वं श्रोतृषु स्वविषयाद्भुतविस्मयकारितेति भावः, अद्भुतत्वमनतिविलम्बित्वं च प्रनीतं विभ्रमविक्षेपकिलिकेिश्चितादिवियुक्तत्वामिति - विभ्रमो वक्तुर्भ्रान्तमनस्कता विक्षेपो वक्तुरेवाभिधेॐ या प्रत्यनासक्तता किलिकिञ्चितं रोषभयलोभादिभावानां युगपदसकृत्करणं आदिशब्दान्मनोदोषान्तरपरिग्रहः तैर्वियुक्तं यत्तत्तथा तद्भावस्तत्त्वं, अनेकजातिसंश्रयाद्विचित्रत्वं सर्वभाषानुयायितया चित्ररूपता, आहितविशेषत्वं शेषपुरुषवचनापेक्षया शिष्येषूत्पादितमतिविशेषता, साकारत्वं विच्छिन्नपदवाक्यता, सत्त्वपरिगृहीतत्वम् - ओजस्विता, अपरिखेदित्वम् - अनायाससम्वात्, अव्यवच्छेदित्वं
३
तिर्थंकरस्य ३५ वचनातिशया
For Penal Use On
~ 28~
4020305630