________________
आगम
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
---------- मूलं [१]
(१३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
वन्त इत्यर्थः, नित्यं 'गुलइया' इति गुल्मिताः स्तवकगुल्मौ गुच्छविशेषौ, नित्यं 'गोच्छिता' गोच्छवन्तः, नित्यं 'जमलिता' यमल-15 नाम समानजातीययोर्युग्मं तत् सञ्जातमेषामिति यमलिताः, नित्यं युगलिता युगलं-सजातीयविजातीययोर्द्वन्दं तदेषां सजातमिति युगलिताः, तथा नित्यं-सर्वकालं फलभरेण विनताः-ईपन्नताः, तथा नित्यं महता फलभरेण प्रकर्षणातिदूरं नताः प्रणताः, तथा नित्यं सर्वकालं सुविभक्तः सुविच्छित्तिकः प्रतिविशिष्टो मञ्जरीरूपो योऽवतंसकस्तद्धरास्तद्धारिणः, एवं सर्वोऽपि कुसुमितत्वादिको धर्म एकैकस्य वृक्षस्योक्तः, साम्पतं केषाश्चिदृक्षाणां सकलकुसुमितत्वादिधर्मप्रतिपादनार्थमाह-निच्चं कुसुमियमगलियेत्यादि । किमुक्तं भवति केचित्कुसुमितायेकैकगुणयुक्ताः केचित्समस्तकुसुमितादिगुणयुक्ता इति, अत एव कुसुमियमालइयमउलियेत्यादिपदेषु कर्मधारयः, तथा शुकचर्हिणमदनशालिकाकोकिलाकोरककोभवभिङ्गारककोण्डलकजीवंजीवकनन्दीमुखकपिलपिङ्गलाक्षकारण्डवचक्रवाककलहंससारसाख्यानामनेकेषां शकुनगणानां मिथुनैः-स्त्रीपुंसयुक्तर्यद्विचरितम् इतस्ततो गमनं यच्च शब्दोन्नतिक-उन्नतशब्दक मधुरस्वरं च नादितं-लषितं येषु ते तथा, अत एव सुरम्याः-सुष्टु रमणीयाः, अत्र शुकाः-कीराः, बहिणो-मयूराः, मदनशालिकाःशारिकाः, कोकिला:-पिकाः, चक्रवाककलहंससारसाः प्रतीताः, शेषास्तु जीवविशेषा लोकतो वेदितव्याः, तथा सम्पिण्डिताःएकत्र पिण्डीभूताः दृप्ताः- मदोन्मत्ततया दर्पाध्माता भ्रमरमधुकरीणां पहकराः-सङ्घाताः 'पइकर ओरोह संघाया' इति देशी
नाममालावचनात् यत्र ते सम्पिण्डितहप्तभ्रमरमधुकरीपहकराः, तथा परिलीयमानाः-अन्यत आगत्याश्रयन्तो मत्ताः षट्पदाः कुसुसमासवलोला:-किञ्जलपानलम्पटा मधुरं गुमगुमायमाना गुञ्जन्तश्च-शब्दविशेषं च विदधाना देशभागेषु येषां ते परिलीयमानमत्तषट्
पदकुसुमासबलोलमधुरगुमगुमायमानगुञ्जद्देशभागाः, गमकत्वादेवमपि समासः, ततो भूयः पूर्वपदेन विशेषणसमासः, तथा अभ्यन्तराणि
दीप
अनुक्रम
(३)
REaratinindiana
लाudiorary.orm
अशोकवृक्षस्य वर्णनं
~16~