________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
---------- मूलं [२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सुत्रांक
[२६]
जानुनी यस्यासार्बजानुः, अधःशिरा नो? तिर्यग्वा विक्षिप्तदृष्टिः किन्तु नियतभूभागनियमितदृष्टिरित्यर्थः, 'झाणकोदोवगए। इति ध्यान-धर्मध्यानं शुक्लथ्यानं च तदेव कोष्ठः-कुशूलो ध्यानकोष्ठस्तमुपगतो ध्यानकोष्ठोपगतो, यथा हि कोष्टके धान्य प्रक्षिप्तमविभसतं भवति एवं भगवानपि ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरित्यर्थः, 'संयमेन' पश्चाश्रवनिरोधादिलक्षणेन तपसा-1 अनशनादिना चशब्दोऽत्र समुच्चयार्थों लुमो द्रष्टच्या, संयमतपोग्रहणमनयोः प्रधानमोक्षाङ्गताख्यापनार्थं, प्राधान्यं संयमस्य नवकर्मा-12 नुपादानहेतुत्वेन तपसश्च पुराणकर्मनिर्जराहेतुत्वेन, तथाहि- अभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच जायते सकलकर्मक्षयलक्षणो मोक्षस्ततो भवति संयमतपसोर्मोक्षं प्रति प्राधान्यमिति 'अप्पाणं भावमाणे विहरति । इति, आत्मानं वासयन् तिष्ठति । 'तए ण' मित्यादि, ततो ध्यानकोष्ठोपगतविहरणादनन्तरं 'ण'मिति वाक्यालङ्कारे स भगवान् गौतमो 'जातसड़े। इत्यादि, जात-- श्रद्धादिविशेषणविशिष्टः सन् उत्तिष्ठतीति योगः, तत्र जाता-प्रवृत्ता श्रद्धा-इच्छा वक्ष्यमाणार्थतत्वावगर्म प्रति यस्यासी जातश्रद्धःतथा जातः संशयो यस्य स जातसंशयः, संशयो नाम अनवधारितार्थं ज्ञानं, स चै-इत्थं नामास्य दिव्या देवद्धिविस्तृता अभवन् । इदानी सा क गतेति, तथा 'जायकुतूहले ' इति जातं कुतूहलं यस्य स जातकुतूहल:, जातौत्सुक्य इत्यर्थः, तथा कथममुमर्थ भग
वान् प्ररूपयिष्यति इति, तथा 'उप्पन्नसड़े। उत्पन्ना पागभूता सती भूता श्रद्धा यस्यासी उत्पन्नश्रद्धः, अब जातश्रद्ध इत्येतदेवास्तु हाकिमर्थमुत्पन्नश्रद्ध इति, प्रवृत्तश्रद्धवेनवोत्पन्नश्रद्धत्वस्य लब्धत्वात् , न हि अनुत्पन्ना श्रद्धा प्रवर्तते इति, अत्रोच्यते, हेतुत्वप्रदर्शनार्थ,
तथाहि-कथं पत्नश्रद्धः १, उच्यते, यत उत्पन्नश्रद्धः, इति हेतुत्वदर्शनं चोपपन्न, तस्य काव्यालङ्कगरत्वात् यथा 'प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां युबुधे विभावरी'मित्यत्र, अत्र हि यद्यपि प्रवृत्तदीपादित्वादेवाप्रवृत्तभास्करत्वमुपगतं तथाप्यप्रदृत्तभास्करत्वं ।
दीप अनुक्रम [२६]
SAMERatani
LEAJanuaryana
गौतमस्वामिन: वर्णनं
~118~