________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्तिः )
---------- मूलं [२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सुत्रांक
[२६]
दीप अनुक्रम [२६]
श्रीराजप्रश्नी हितेन तपस्तप्तं येन सर्वाण्यपि अशुभानि कर्माणि भस्मसात् कृतानीति ' महातवे । इति महान्-प्रशस्तमाशंसादोषरहितत्वात् तपो भगवद्गीतममलयगिरी- यस्य स महातपाः, तथा 'उराले' इति, उदार:-प्रधानः अथवा उरालो-भीष्मः उप्रादिविशिष्टतपःकरणतः पार्थस्थानामल्पसत्त्वा- वर्णनं या दृत्तिः नामनिभयानकर
नामतिभयानक इति भावः, तथा घोरो-निपुणः परीपहेन्द्रियादिरिपुगणविनाशनमधिकृत्य निर्दय इतियावत् , तथा घोरा अन्यैर्दुरनु | 25 आपक चरा गुणा मूलगुणादयो यस्य स घोरगुणः, तथा घोरैस्तपोभिस्तपस्वी घोरतपस्वी, 'घोरवंभचेरवासी' इति घोर-दारुणमल्प- मू० २६
सत्त्वदुरनुचरत्वात् ब्रह्मचर्यं यत् तत्र वस्तुं शीलं यस्य स तया, 'उच्छुड़सरीरे' इति उच्छूढम् उज्नितमिवोज्नितं संस्कारपरित्यागात् शरीरं येन स उच्छूशरीरः, 'संखित्तविउलतेउलेसे' इति साविमा-शरीरान्तर्गतत्वेन हस्वतां गता विपुला-विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, 'चउदसपुत्री' इति चतुर्दश पूर्वाणि विद्यन्ते यस्य तेनैव तेषां रचितत्वात् असौ चतुर्दशपूर्वी, अनेन तस्य श्रुतकेवलितामाह, स चावधिज्ञानादिविकलोपि स्यादत आह-चउनाणोवगए। मतिश्रुतावधिमनःपर्यायज्ञानचतुष्टयसमन्वितः, उक्तविशेषणद्वययुक्तोऽपि कश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवति चतुर्दशपूर्वविदामपि षट्स्थानपतितत्वेन श्रवणादत आह-'सर्वाक्षरसन्निपाती' अक्षराणां सन्निपाताः-संयोगाः अक्षरसन्निपाताः सर्वे च ते अक्षरसन्निपाताश्च सर्वाक्षरसन्निपातास्ते यस्य ज्ञेयाः स तथा, किमुक्तं भवति ?-या। काचित् जगति पदानुपूर्वी वाक्यानुपूर्वी वा संभवति ताः सर्वा अपि जानातीति, एवंगुणविशिष्ठो भगवान् विनयराशिरिष साक्षा-IN
दितिकृत्वा शिप्याचारत्वाच्च श्रमणस्य भगवतो महावीरस्यादूरसामन्ते विहरतीति योगः, तत्र दूरं-विप्रकृष्टं सामन्तं-सन्निकृष्टं तत्पहतिषेधाददूरसामन्तं ततो नातिदूरे नातिनिकटे इत्यर्थः, किंविशिष्टः सन् तत्र विहरतीत्यत आह-' उर्दुजाण अहोसिरे ऊर्ध्व
॥५७॥
गौतमस्वामिन: वर्णनं
~117~