________________
आगम
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
(१३)
----------- मूलं [२०-२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२०-२३]
दीप अनुक्रम [२०-२३]
तमालिङ्गवादकानां १६ अष्टशतं कुस्तुम्बाना कुस्तुम्बः-चावनद्धपुटो वाद्यविशेषः अष्टशतं कुस्तुम्बबादकाना १७ अष्टशतं गोमुखीनां, मोमुखी लोकतोऽवसेया, अष्टशतं गोमुखीवादकानां १८ अष्टशतं मर्दलाना, मईल:-उभयतः समः, अष्टशवं मर्दलवादकानां १९ अष्टशतं विपञ्चीनां, विपश्ची-त्रितन्त्री वीणा, अष्टशतं विपञ्चीवादकानां २०, अष्टशतं बल्लकीना, बल्लकी-सामान्यतो वीणा, अष्टशतं बल्लकीवादकानां २१ अष्टशतं भ्रामरीणामष्टशतं भ्रामरीवादकानां २२ अष्टशतं पद्भ्रामरीणामष्टशतं पभ्रामरीवादकानां २३ अष्टशतं परिवादिनीनां परिवादिनी-सप्ततन्त्री वीणा अष्टशतं परिवादिनीवादकानां २४ अष्टशतं ववीसानामष्टशतं ववीसावादकानां २५ अष्टशतं सुघोषाणामष्टशतं सुघोषावादकानां २६ अष्टशतं नन्दिघोषाणामष्टशतं नन्दीघोपवादकानां २७ अष्टशतं महतीनां, महती-शततन्त्रिका वीणा अष्टशतं महतीवादकाना २८ अष्टशतं कच्छभीनामष्टशतं कल्छभीवादकानां २९ अष्टशनं चित्रवीणानां अष्टशतं चित्रवीणावादकानां ३० अष्टशतमामोदानामष्टशतं आमोदवादकानां ३१ अष्टशतं झञ्झानामशतं झञ्झावादकानां ३२ अष्टशतं नकुलानां अष्टशतं नकुलवादकानां ३३ अष्टशतं तूणानामष्टशतं तूणावादकानां । ३४ अष्टशतं तुम्बवीणानां तुम्बयुक्ता वीणा या तुम्बवीणा अधकल्यप्रसिद्धा अष्टशतं तुम्बवीणावादकानां ३५ अष्टशतं मुकुन्दानां मुकुन्दो-मुरुजवायविशेषो योऽतिलीनं पायो वाद्यते अष्टशतं मुकुन्दवादकानां ३६ अष्टशतं हुडुकानामष्टशतं हुडकावादकानां हुडुका मतीता ३७, अष्टशनं चिवि[विचि] कीनामष्टशतं चिवि[विचि] कीवादकानां ३८, अष्टशतं कस्टीनाराष्टशतं कस्टीवादकानां, करटी प्रतीता ३९ अष्टशतं डिण्डिमानामष्टशतं डिण्डिमवादकाना, मधमप्रस्तावनास्तबका पणवविशेषः डिण्डिमः४०, अष्टशतं किणितानामष्टशन किणितवादकानां ४१ अष्टशतं कटवानामशतं कडवावादकाना, कडवा-करटिका ४२, अष्टशतं दर्दरकाणामहशतं दर्दरवादकाना, दईरकः
~ 102~