________________
आगम
(१३)
प्रत
सूत्रांक
[२०-२३]
दीप
अनुक्रम
[२०-२३]
“राजप्रश्निय”- उपांगसूत्र - १ ( मूलं + वृत्तिः )
मुनि दीपरत्नसागरेण संकलित..
मूलं [२०-२३] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
सदृक्-समानं वयो येषां ते तथा तेषां 'सरिसलावण्णरूवजोव्वणगुणोत्रवेयाण' मिति सदृशेन लावण्येन - लवणिन्ना अतिसुभगया। शरीरकान्त्येति भावः, रूपेण-आकृत्या यौवनेन-यौवनिकया गुणैः- दक्षत्वप्रियंवदत्वादिभिरुपपेताः सदृशलावण्यरूपयौवनगुणोपपेतास्तेषां, 'एगाभरणवसनगहियनिज्जोगाणामिति एकः समानः आभरणवसनादिः - आभरणवसनलक्षणो गृहीतो निर्योगः-उपकरणमर्थानाटयोपकरणं यैस्ते तथा तेषां 'दुहओ संवेल्लियम्गनियत्थानं ति द्विघातो- द्वयोः पार्श्वयोः संवेल्लितानि संवृत्तानि ग्राणि यस्य तद् द्विधातः संवेहिताम्रं न्यस्तं सामर्थ्यादुत्तरीयं यैस्ते तथा तेषां तथा 'उप्पीलियचित्तपट्टपरियर सफेणगावत्तरसंगयप लंबवत्थंतचित्तचिल्ललगनियंसणाण' मिति, उत्पीडितः - अत्यन्तावद्धश्चित्रपट्टो - विचित्रवर्णपट्टरूपः परिकरो यैस्ते तथा यस्मिन्नावर्त्तने फेनविनिर्गमो भवति स सफेनकावर्त्त उच्यते ततः सफेनकावर्त्तेन रचिता सङ्गता-नाटयविधानुपपन्नाः प्रलम्बा वस्त्रान्ता यस्य निवसनस्य तत्तथा तत् चित्रं चित्रवर्णं चिल्ललगं देदीप्यमानं निवसनं परिधानं येषां ते तथा, ततः पूर्वपदेन विशेषणसमासस्तेषां 'एगावलिकंठरइयसोभंतवच्छ परिहत्थभूसणाण' मिति, एकावलिर्या कण्ठे रचिता तया शोभमानं वक्षो येषां ते तथा परिहत्थशब्दो देश्यः परिपूर्णवाचकः, पडिहत्थानि पूर्णानि भूषणानि येषां ते तथा ततः पूर्वपदेन कर्म्मधारयस्तेषां, 'नट्टसज्जाणं' नृत्ये सज्जा:प्रगुणीभूता नृत्यसज्जास्तेषां । तदनन्तरं च यथोक्तविशेषणविशिष्टं वामं भुजं प्रसारयति, तस्माद् वामभुजात् अष्टशतं देवकुमारिकाणां विनिर्गच्छति, कथम्भूतमित्याह--' सरिसवाणं सरित्तयाणं सरिव्वयाणं सरिसलावण्णरूवजोन्त्रण गुणोवत्रेयाणं एगाभरणवसणगहियनिज्जोईणं दुहतोसंवेल्लियग्गनियत्थीणाम'ति पूर्ववत् 'आविद्धतिलयामेलाणं' आविद्धस्तिलक आमेल-शेखरको यकाभिस्ता आविद्धतिलकामेलास्तासां 'पिणद्धगेवेजकञ्चुकाणमिति, पिनद्धं ग्रैवेयकं - ग्रीवाभरणं कञ्चुकच यकाभिस्तास्तथा तासां,
भगवत् महावीरस्य संमुख: सूर्याभदेव कृत् नाट्यविधि-दर्शनं
For Pal Use Only
~ 100~