________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१)
CREAKESAXCX
प्रमोदकारणवस्तूनां सद्भावात् जना-नगरीवास्तव्यलोका जानपदाश्च-जनपदभवास्तत्रायाताः सन्तो यस्यां सा प्रमुदित| जनजानपदा, पाठान्तरे 'पमुइयजणुजाणजणवया' तत्र प्रमुदितजनान्युद्यानानि जनपदाश्च यस्यां सा तथा । 'आइण्ण. जणमणुस्सा' मनुष्यजनेनाकीर्णा-सङ्कीर्णा, मनुष्यजनाकीर्णेतिवाच्ये राजदन्तादिदर्शनादाकीर्णजनमनुष्येत्युक्तम् , आकीर्णो वा-गुणव्याप्तो मनुष्यजनो यस्यां सा तथा । 'हलसयसहस्ससङ्किटविकिहलपणत्तसेउसीमा' हलाना-लालानां शतैः ||४| | सहबैश्च शतसहस्रा-लक्षैः संकृष्टा-विलिखिता विकृष्टं-दूरं यावद् अविकृष्टा वा-आसन्ना लष्टा-मनोज्ञा कपकाभिमत| फलसाधनसमर्थत्वात् 'पण्णत्त'त्ति योग्यीकृता बीजवपनस्य सेतुसीमा-मार्गसीमा यस्याः सा तथा, अथवा-संकृष्टादिविशेषणानि सेतूनि-कुल्याजलसेकक्षेत्राणि सीमासु यस्याः सा तथा, अधवा-हलशतसहस्राणां संकृष्टेन-संकर्षणेन | विकृष्टा-दूरवर्तिन्यो लष्टाः प्रज्ञपिता:-कथिताः सेतुसीमा यस्याः सा तथा, अनेन तजनपदस्य लोकबाहुल्यं क्षेत्रबाहुल्यं चोक्तम् । 'कुकुडसंडेयगामपउरा' कुकुटा:-ताम्रचूडाः पण्डेयाः-पण्डपुत्रकाः तेषां ग्रामा:-समूहास्ते प्रचुरा:-प्रभूताः यस्यां | सा तथा, अनेन लोकप्रमुदितत्वं व्यक्तीकृतं, प्रमुदितो हि लोकः क्रीडार्थ कुक्कुटान् पोषयति पण्डांश्च करोतीति । 'उच्छुजबसालिकलिया' पाठान्तरेण 'उच्छुजवसालिमालिणीया' एतद्व्याप्तेत्यर्धः, अनेन च जनप्रमोदकारणमुक्तं, न ह्येवंप्रकारव-|| स्वभावे प्रमोदो जनस्य स्यादिति । 'गोमहिसगवेलगप्पभूया' गवादयः प्रभूताः-प्रचुरा यस्यामिति वाक्यम्, गवेलगाउरभ्राः । 'आयारवन्त चेइयजुवइविविहसंविणविठ्ठबहुला' आकारवन्ति-सुन्दराकाराणि आकारचित्राणि वा यानि चैत्यानि-देवतायतनानि युवतीनांच-तरुणीनां पण्यतरुणीनामिति हृदयं, यानि विविधानि सन्निविष्टानि-सन्निवेशनानि है।
दीप अनुक्रम
चंपानगर्या: वर्णनं
~6~