________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
औपपातिकम्
प्रत सूत्रांक
॥१३॥
दीप अनुक्रम
लाससललियसलावणिउणजुत्तोवयारकुसला' सङ्गता-उचिता गतहसितभणितविहितविलासा यस्याः सा तथा, तत्रधारिणीव |विहित-चेष्टितं विलासो-नेत्रचेष्टा, तथा सह ललितेन-प्रसन्नतया ये संलापा:-परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा, तथा युक्ताः-सङ्गता ये उपचारा-लोकव्यवहारास्तेषु कुशला या सा तथा, ततः पदत्रयस्थ कर्मधारयः, कचिदिदमन्यथा दृश्यते-'सुंदरथणजघणवयणकरचरणनयणलावण्णविलासकलिया' व्यक्तमेव, नवरं जघनं-पूर्वकटीभागः लावण्यम्आकारस्य स्पृहणीयता विलासः-स्त्रीणां चेष्टाविशेषः, आह च-"स्थानासनगमनानां हस्तधूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स विलासः स्यात् ॥ १॥" इति । तथा 'कोणिपणं रण्णा सद्धिं अणुरत्ता अविरत्ता इठे सदफरिसरसरूवगंधे पंचविहए माणुस्सए कामभोए पञ्चणुब्भवमाणी विहरति' व्यक्तमेव, नवरं अनुरक्ता-अविरक्का, अनुरज्य न | विप्रियेऽपि विरक्ततां गतेत्यर्थः ॥७॥
तस्स णं कोणिअस्स रण्णो एके पुरिसे विउलकयवित्तिए भगवओ पवित्तिवाउए भगवओ तदेवसि पविति णिवेएइ, तस्स णं पुरिसस्स बहवे अण्णे पुरिसा दिण्णभतिभत्तवेअणा भगवओ पवित्तिवाउआ भगवओ तद्देवसियं पवित्तिं णिवेदेति ॥ (सू०८)॥
'तस्स ण' मित्यादी 'विउलकयवित्तिए'त्ति विहितप्रभूतजीविक इत्यर्थः, वृत्तिप्रमाणं चेदम्-अर्द्धत्रयोदशरजतसहस्राणि, यदाह-मंडलियाण सहस्सा पीईदाणं सयसहस्सा" । 'पवित्तिवाउए'त्ति प्रवृत्तिव्यापूतो-बार्ताव्यापारवान्, वार्तानिवेदक
१ माण्डलिकानां सहस्राणि प्रीतिदानं शतसहस्राणि (आगमने)।
NAGAR
| धारिणीराज्य: वर्णनं,
~29~