________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
दीप अनुक्रम
लक्षणतः, पूर्णानि स्वरूपतः, पुण्यानि वा-पवित्राणि पञ्चापीन्द्रियाणि यत्र तत्तथाविधं शरीरं यस्याः सा तथा । 'लक्खणवंजणगुणोववेया' लक्षणानि-स्वस्तिकचक्रादीनि व्यञ्जनानि-मपीतिलकादीनि तेषां यो गुणः-प्रशस्तत्वं तेनोपपेता-युक्ता या सा तथा । 'माणुम्माणप्पमाणपडिपुण्णसुजायसवंगसुंदरंगी' तत्र मान-जलद्रोणप्रमाणता, कथम् ?-जलस्यातिभृते कुण्डे प्रमातव्यमानुपे निवेशिते यज्जलं निस्सरति तद्यदि द्रोणमानं स्यात्तदा तन्मानुपं मानप्राप्तमुच्यते, तथा उन्मानम्अर्द्धभारप्रमाणता, कथम् , तुलारोपितं मानुष यद्यर्द्धभारं तुलति तदा तदुन्मानप्राप्तमित्युच्यते, प्रमाणं तु-स्वाङ्गुलेनाष्टोत्तरशतोच्छ्यता, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि-अन्यूनानि सुजातानि-सुनिष्पन्नानि सर्वाण्यङ्गानि-शिरःप्रभृतीनि
यत्र तत्सथाविधं सुन्दरमङ्ग-शरीरं यस्याः सा तथा । 'ससीसोमाकारकतपीयदसणा' शशिवत्सीम्याकार-कान्तं च-कमहनीयमत एव च प्रियं-बलभ द्रष्टणां दर्शन-रूपं यस्याः सा तथा । अत एव 'सुरूव'त्ति शोभनरूपा । 'करयलपरिमिअ
पसत्थतिवलियवलियमझा' करतलपरिमितो-मुष्टिग्राह्यः प्रशस्तः-शुभत्रिवलिको चलित्रययुक्तो चलितः-सञ्जातवलिमध्यो-मध्यभागो यस्याः सा तथा । 'कुंडलुल्लिहियगडलेहा' कुण्डलाभ्यामुल्लिखिता गण्डलेखाः कपोलपत्रवल्यो यस्याः द सा तथा, 'कुण्डलोल्लिखितपीनगण्डलेखेति पाठान्तरं, व्यक्तं च । 'कोमुइरयणियरविमलपडिपुण्णसोमवयणा' कौमुदी
चन्द्रिका कार्तिकी वा तत्प्रधानस्तस्यां वा यो रजनीकर:-चन्द्रस्तद्वद्विमलं प्रतिपूर्ण सौम्यं च वदनं यस्याः सा तथा ।
'सिंगारागारचारुवेसा' शृङ्गारस्य-रसविशेषस्यागारमिव-स्थानमिव चारु:-शोभनो वेपो-नेपथ्यं यस्याः सा तथा, अथवा || लशृङ्गारो-मण्डनभूषणाटोपस्तत्प्रधानः आकार:-संस्थानं चारुश्च वेपो यस्याः सा तथा । 'संगयगयहसियभणियविहियवि
AREarathinintimational
धारिणीराज्य: वर्णनं
~ 28~