________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
-------- मूलं [...३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३४]
दीप अनुक्रम
स्तत्सम्बस्घिजीवस्य स्वभाषाया-निजभाषायाः सम्बन्धिना परिणामेन-स्वरूपेण परिणमति-वर्तते । यादर्श धर्म कथयति तदर्शनार्थमाह-'तंजहे'त्यादि, अस्थि लोग इत्यादि कलाणपावए' इत्येतदन्तं,सुगम, नवरं लोकः-पञ्चास्तिकायमयः अलोकःकेवलाकाशरूपः, अनयोश्चास्तित्वाभिधानं शून्यवादनिरासार्थ, तन्निरासोपपत्तिश्च ग्रन्थान्तरावगम्या, एवं प्रायेणोत्तरत्रापि, 'अस्थि जीवा' अस्तीति क्रियावचनप्रतिरूपको निपातो बहुवचनार्थो द्रष्टव्यः, इदं च लोकायतमतनिषेधार्थमुक्तम् , 'अस्थि Ki अजीवत्ति पुरुषाद्वैतादिवादनिषेधार्थम्, 'अस्थि बंधे अस्थि मोक्खे'त्ति बन्धः कर्मणा जीवस्य मोक्ष:-सकलकर्मवियोगः
तस्यैव, एतच्च द्वयं “संसरति बध्यते मुच्यते च नानानया प्रकृतिरेव, नात्मे"त्येवंविधसायमतनिषेधार्थमिति, 'अस्थि | पुण्णे अस्थि पावे'त्ति पापमेवापचीयमानमुपचीयमानं च सुखदुःखनिबन्धनं न पुण्यं कर्मास्ति, पुण्यमेव चोपचीयमानम|पचीयमानं च सुखदुःखहेतुर्न पापमस्तीत्येवंविधवादनिरासार्थमुक्तं जगद्वैचित्र्यनिवन्धनकेवलस्वभाववाद निरासार्थ वा, | 'अस्थि आसवे अस्थि संवरे कर्मबन्धहेतुराश्रवः आश्रवनिरोधः संवरः, एतच्च बन्धमोक्षयोनिष्कारणत्वप्रतिषेधार्थ वीय-18 प्राधान्यख्यापनार्थं वा, 'अस्थि वेयणा अधि णिज्जरा' वेदना-कर्मणोऽनुभवनं पीडा वा निर्जरा-देशतः कर्मक्षयः, एतच्च | 'नाभुक्तं क्षीयते कमें त्येतत्प्रतिपादनार्थम् , अहंदादिचतुष्कसत्ताभिधानं तु तद्भवनातिशायित्वमश्रद्दधतां तच्छ्रद्धोत्पादनार्थ, नरकनैरयिकास्तित्वप्रतिपादनं च प्रमाणाग्राह्यत्वात्ते न सन्तीति मतनिषेधार्थ, लियंगाद्यस्तित्वप्रतिपादनं तु प्रत्यः क्षप्रमाणस्य भ्रान्तत्वात् कुवासनाजन्योऽयं तिर्यगादिप्रतिभासो न तत्सत्तानिबन्धन इति ये मन्यन्ते तन्मतनिषेधाथ, मातापितृसत्ताभिधानं तु ये मन्यन्ते-योऽयं मातापितृव्यपदेशः स जनकत्वकृतो जनकत्वाच्च यूका कृमिगण्डोलकादान
[३४]
| भगवत् महावीरस्य धर्मदेशनया: [प्रवचनस्य] वर्णनं
~160~