________________
आगम
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्तिः )
(१०)
श्रुतस्कन्ध: [१], ---
.........................- अध्ययनं [१]-----------...........-- मूलं | गाथा ||१|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
गाथा ||१||
सुधर्मखामिशिष्यत्वात् सुधर्मखामिना प्रणीतमिदं सूत्रत इत्यभिहितं, महर्षिभिरित्यनेन चार्थतस्तीर्धकरैरिति । इह च सुधर्मस्वामिनं प्रति श्रीमन्महावीरेणैवार्थतोऽस्याभिधानेऽपि यन्महर्षिभिरिति बहुवचननिदेशेन तीर्थकरान्तराभिहितत्वमस्य प्रतिपादितं तत्सर्वतीर्थकराणां तुल्यमतत्वप्रतिपादनार्थ, विषममतत्वे हि तेषामसर्वज्ञत्वप्रसङ्गादिति, इह च महर्षिग्रहणेन तदन्येषामपि सम्भवे यत् तीर्थकरैरिति व्याख्यातं तत् 'अत्यं भासह अरहा सुत्तं गंधति गणहरा निउण'मिति वचनानुसारानिरुपचरितमहच्छन्दप्रयोगस्य च तेष्वेव युज्यमा
नत्वादिति, एतेन चास्य शास्त्रस्योपक्रमाख्यानुयोगद्वारसम्बन्धिनः प्रमाणाभिधानभेदस्यागमाभिधानप्रतिभेहादस्याभेदभूता तीर्थकरापेक्षयाऽर्थत आत्मागमता गणधरापेक्षयाऽर्थतः अनन्तरागमता तच्छिष्यापेक्षया परRम्परागमता प्रोक्ता, 'जम्बू' इत्यनेन सूत्रतः सुधर्मखाम्यपेक्षया आत्मागमता जम्बूस्वाम्यपेक्षयाऽनन्तराग
मता तच्छिष्यापेक्षया च परम्परागमतेति, अथवा अनुगमाख्यतृतीयानुयोगद्वारस्य प्रभेदभूतो य उपोद्घातनियुक्त्यनुगमस्तत्सम्बन्धिनः पुरुषद्वारस्य प्रभेदभूतार्थतस्तीर्थकरलक्षणभावपुरुषप्रणीतता सूत्रतो गणधरलक्षणभावपुरुषप्रणीतता चास्योक्ता, तथा च गुरुपर्वक्रमलक्षणः सम्बन्धोऽप्यस्य दर्शितः, एतदुपदर्शनेन चास्मिन शास्त्रे आप्तप्रणीततयाऽविसंवादित्वेन ग्राह्यमेतदिति बुद्धिः प्रेक्षावतामाविर्भाविता, तथा आश्रवसंवरविनिश्चयमित्यनेनास्याभिधेयमुक्तं, एतदभिधाने चोपक्रमद्वारान्तर्गतमर्थाधिकारद्वारं तद्विशेषभूतखसमयवक्तव्यताद्वारैकदेशरूपमुपदर्शितमिति, प्रवचनस्य निस्यन्दमित्यनेन तु प्रवचनप्रधानावयवरूपखम
दीप अनुक्रम [१-२]
SAREais
a tioned
~
8
~