________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ---------- ------------- अध्ययनं [२] -------- --------- मूलं [८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सत्राक
यजणनिसेवियं निस्संस अप्पच्चयकारक परमसाहुगरहणिज परपीलाकारकं परमकण्हलेससहियं दुग्गतिविनिवायवहणं पुणभवकरं चिरपरिचियमणुगयं दुरुतं बितियं अधम्मदारं समत्तं ॥ २॥ (सू०८) 'तस्सेत्यादि 'तस्सति यदु द्वितीयाश्रवत्वेनोच्यते तस्य अलीकस्य फलस्य-कर्मणो विपाक:-उदयः साध्यमित्यर्थः, तमजानन्तो बर्द्धयन्ति महाभयां-अविश्रामवेदना दीर्घकालं बहुदुःखसङ्कटां नरकतियेग्योनि तत्रोत्पादनमित्यर्थः, तेन चालीकेन तजनितकर्मणेत्यर्थः समनुवद्वा:-अविरहिताः आदिग्धास्तु-आलिङ्गिताः पुनर्भवान्धकारे भ्राम्यन्ति भीमे दुर्गतिवसतिमुपागताः,ते च दृश्यन्ते इह-जीवलोके, किंभूता इत्याह-दुग्गंता:-दुःस्था दुरन्ताः-दुष्पर्यवसानाः परवशा:-अखतनाः अर्थभोगपरिवर्जिताः-द्रव्येण भोगैश्च रहिताः 'असुहियत्ति असुखिताः अविद्यमानसुहृदो चा स्फुटितच्छवया-विपादिकाविचर्चिकादिभिर्विकृतत्त्वचः बीभत्सा-विकृतरूपा विवर्णा-विरूपवर्णा इति पदत्रयस्य कर्मधारयः तथा खरपरुषा-अतिकर्कशस्पर्शाः विरक्ता-रतिं कचिदप्यप्राप्ताः ध्यामाः-अनुजवलच्छायाः शुषिरा:-असारकाया इति पदचतुष्टपस्य कर्मधारयः, निछाया:-विशोभाः लल्ला-अव्यक्ता विफला-फलासाधनी बाग येषां ते तथा 'असकयमसक्कयत्ति न विद्यते संस्कृतं-संस्कारो येषां ते असंस्कृनाः असत्कृता:-अविद्यमानसत्कारास्ततः कर्मधारयो मकारश्वालाक्षणिकः अत्यन्तं वा असंस्कृतासंस्कृताः अत एवागन्धा:-अमनोज्ञगन्धाः अचेतना विशिष्टचैतन्याभावात् दुर्भगा:-अनिष्टाः अकान्ताः-अकमनीयाः काकस्येव खरो येषां ते काकखरा हीनो-हस्खो भिन्नश्च-स्फुटितो
दीप अनुक्रम [१२]]
SAREnatalelona
~84