________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्धः [१], --------- ------------- अध्ययनं [२] -------- ---------- मूलं [७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
चारिकाणां, नकर-करवर्जितं, पत्तनं द्विविधं-जलपत्तनं स्थलपत्तनं च, यत्र जलपथेन भाण्डानामागमस्तदाय || यत्र च स्थलपथेन तदितरत्, चारिकाणां-प्रणिधिपुरुषाणां, तथा पारे-पर्यन्ते मार्गस्य घातिका-गन्तॄणां हननं पारघातिका 'पंधघाइयत्ति पथि-मार्गे अर्द्धपथे इत्यर्थः घातिका-गन्तृणां हननं पधिघातिका अनयोइन्द्रोऽतस्ते, साधयन्ति च ग्रन्थिभेदानां-चौरविशेषाणां कृतां च चौरिकां-चोरणं नगरगुप्तिकानां नगररक्षकाणांसाधयन्तीति वर्तते, तथा लाञ्छनं-कर्णादिकल्पनाऽङ्कनादिभिर्निर्लाञ्छनं-बर्द्धितककरणं 'धमण'तिध्मानं महिष्यादीनां वायुपूरणं दोहनं-प्रतीतं पोषणं-यवसादिदानतः पुष्टिकरणं वचनं-वत्सस्यान्यमातरि योजनं 'दुमण ति दुवनमुपतापनमित्यर्थः वाहनं-शकटाद्याकर्षणं एतदादिकानि अनुष्ठानानि साधयन्ति बहूनि गोमिकानां-गोमतां, तथा धातुः-ौरिकं धातवो वा-लोहादयः मणय:-चन्द्रकान्तायाः शिला-दृषदः प्रवालानि-विद्रुमाणि रत्नानि-कतनादीनि तेषामाकराः-खानयस्तान् साधयन्त्याकरिणां-आकरवतां, 'पुष्पेत्यादि वाक्यं प्रतीतं, नवरं विधिः-प्रकारः, तथा अर्थश्च-मूल्यमानं मधुकोशकाश्च-क्षौद्रोत्पत्तिस्थानानि अर्थमधुकोशकास्तान साधयन्ति वनचराणां-पुलीन्द्राणां, तथा यत्राणि-उच्चाटनाद्याक्षरलेखनप्रकारान् जलसङ्ग्रामादियत्राणि वा उदाहरन्तीति योगा, विषाणि-स्थावरजङ्गमभेदानि हालाहलानि मूलकर्म-मूलादिप्रयोगतो गर्भपातनादि 'आहेवण'त्ति आक्षेपं पुरक्षोभादिकरणं पाठान्तरेण 'आहिव्वर्णति आहित्यं अहितत्त्वं-शत्रुभावं पाठान्तरेण 'अविंधण'त्ति आव्यधनं मन्त्रावेशनमित्यर्थः आभियोग्य-वशीकरणादि तच्च
दीप अनुक्रम [११]
AMRA
murary.org
~784